________________
श्लोक ९
अन्ययोगव्यवच्छेदिका
६४
वान्तरप्यनुभूयत एव; ततश्वात्मापि स्यात् कार्यः । न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः; काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावप्रसङ्गात्; : प्रमाणबाधनमुभयत्रापि तुल्यम् । न चोक्तलक्षणकार्यत्वाभ्युपगमेऽप्यात्मनोऽनित्यत्वानुषङ्गात् प्रतिसन्धानाभावोऽनुषज्यतेः कथञ्चिदनित्यत्वे सत्येवास्योपपद्यमानत्वात् । प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरूपम्; तच्चैकान्तनित्यत्वे कथमुपपद्यते ? अवस्थाभेदात्; अन्या ह्यनुभवावस्था, अन्या च स्मरणावस्था; अवस्थाभेदे चावस्थावतोऽपि भेदादेकरूपत्वक्षेतिः कथञ्चिदनित्यत्वं युक्त्यायातं केन वार्यताम् ? |
अथात्मनः शरीरपरिमाणत्वे मूर्तत्वानुषङ्गात् शरीरेऽनुप्रवेशो न स्याद् ; मूर्ते मूर्तस्यानुप्रवेशविरोधात् ; ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीति चेत्; किमिदं मूर्तत्वं नाम ? - असर्वगतद्रव्यपरिमाणत्वं, रूपादिमत्त्वं वा ? । तत्र नाद्यः पक्षो दोषाय, संमतत्वात् । द्वितीयस्त्वयुक्तः- व्यायभावात् ; नहि यदसर्वगतं तद् नियमेन रूपादिमदित्यविनाभावोऽस्ति; मनसोऽसर्वगतत्वेऽपि भवन्मते तदसम्भवात् । आकाशकालदिगात्मनां सर्वगतत्वं, परममहत्त्वं सर्वसंयोगिसमानदेशत्वं चेत्युक्तत्वाद् - मनसो वैधर्म्यात्, सर्वगतत्वेन प्रतिषेधनात् ; अतो नात्मनः शरीरेऽनुप्रवेशानुपपत्तिः, येन निरात्मकं तत् स्यात्, असर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत् प्रवेशाप्रतिबन्धकत्वात्, । रूपादिमत्त्वलक्षणमूर्तत्वोपेतस्यापि जलादेर्वालुका
१ ' अवस्थाभेदेन' इति क पुस्तके पाठः ।
२ 'क्षते' इति रा. ह. क. घ. पुस्तकेषु पाठः ।
३ 'व्याप्त्यभावात्' इति रा. पुस्तके नास्ति ।
४ सर्वमूर्तसंयोगित्वम् ।
५ इयत्तारहितत्वम् ।