________________
६५ . स्याद्वादमञ्जरीसहिता
श्लोक ९ दावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिषिध्यत इति महचित्रम् ।
___ अथात्मनः कायपरिमाणत्वे-बालशरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकारः कथं स्यात् ।। किं तत्परिमाणत्यागात्, तदपरित्यागाद् वा ?। परित्यागात् चेत् , तदा शरीरवत् तस्यानित्यत्वप्रसझात्-परलोकाद्यभावानुषङ्गः । अथापरित्यागात् । तन्नः पूर्वपरिमाणापरित्यागे शरीरवत् तस्योत्तरपरिमाणोत्पत्त्यनुपपत्तेः । तदयुक्तम् युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात्; विफणावस्थोत्पादे सर्पवत्, इति कथं परलोकाभावोऽनुषज्यते; पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् ।
___ अथात्मनः कायपरिमाणत्वे-तत्खण्डने खण्डनप्रसङ्गः, इति चेतू कः किमाह ? शरीरस्य खण्डने कथञ्चित् तत्खण्डनस्येष्टत्वात् शरीरासम्बद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशेऽवस्थानादात्मनः खण्डनम्। तच्चात्र विद्यत एव । अन्यथा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । नचैकत्र सन्तानेऽनेक आत्मानः। अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात् । शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत्
कथं खण्डितावयवयोः संघट्टनं पश्चाद् ? इति चेत् ; एकान्तेन छेदानभ्युपगमात् । पद्मनालतन्तुवत् छेदस्यापि स्वीकारात् । तथाभूतादृष्टवशात् तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवात्माङ्गीकर्तव्यः, न व्यापकः । तथा च आत्मा व्यापको न भवति, चेतनत्वात् , १ 'तत्' इति क. पुस्तके नास्ति । २ 'अर्थ' इति ख. पुस्तके नास्ति । ३ 'चैतत्खण्डन' इति क. पुस्तके पाठः ।