________________
श्लोक ९
अन्ययोगव्यवच्छेदिका यत्तु व्यापकं-न तत् चेतनम् , यथा व्योम, चेतनश्चात्मा तस्माद् न व्यापकः; अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा कायप्रमाणता । यत्पुनरष्टमसमयसाध्यकेवालसमुद्घातदशायामाहतानामपि चतुर्दशरज्ज्वात्मकलोकव्यापित्वेनात्मनः. सर्वव्याप
१ समुद्घातः---हन् हिंसागत्योः । हननं घातः । सम् एकीभावे । उत् प्राबल्ये । ततश्चैकीभावन प्राबल्येन च घातः समुद्धातः । अथ केन सहकभिावगमनम् । उच्यते। यदात्मा वेदनादि ( वेदनाकषायमरणवैक्रियतैजसाहारकेवलिकेति ) अनुभवज्ञानपरिणतो बहून्वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति । आत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः । अतः प्राबल्येन घातइति । भगवतीसूत्रे शतक १३ उद्देश १० अभयदेवीयटीकायाम् ।। केवलिसमुद्धातोऽष्टसामयिकः । तं च कुर्वन् केवली प्रथमसमये बाहुल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति। द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वा कपाटम् । तृतीये मंथानम् चतुर्थेऽवकाशान्तराणां पूरणम् । पञ्चमेऽवकाशान्तराणां संहारम् । षष्ठे मथः सप्तमे कपाटस्थः । अष्टमे स्वशरीरस्थो भवति । इत्यभिधानराजेन्द्रकोशे सप्तमभागे पृ. ४२९। __२ केवलद्वीपपयोधिपर्यन्तवर्तिनः स्वयंभूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्त एतावत्प्रमाणा रज्जुरवगन्तव्या अधस्तादधोभागोऽधोमुखमल्लकतुल्योऽधोमुखीकृतशरावसदृक्षाकार उपरि पुनः संघुटस्थितयोमलकयोः शरावयोराकारमनुसरति लोकः । अयमर्थः । प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति । स च पञ्चास्तिकायमयो धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चभिरस्तिकायैर्व्याप्तः । प्रवचनसारोद्धारटीकायां सिद्धसेनसूरिशेखरकृतायां द्वार १४३। अस्य सर्वस्य लोकस्य कलया भागाश्चतुर्दश । एकैकस्य विभागोऽयमेकैकरज्जुसंमितः ॥८॥ सर्वाधस्तनलोकान्तादारभ्योपरिगं तलम् । यावत्सप्तममेदिन्या एका रज्जुरियं भवेत् ॥ ९ ॥ प्रत्येकमेवं सप्तानां भुवामुपरि वर्तिषु । तलेषु रज्जुरेकैका स्युरेवं सप्त रज्जवः ।। १० ॥ रत्नप्रभोपरितलात् आरभ्यादिमताविषे । पर्याप्तेषु विमानेषु स्यादेषा रज्जुरष्टमी ॥११ ॥ तत आरभ्य नवमी महेन्द्रान्ते प्रकीर्तिता। अतः परं तु दशमी लान्तकान्ते समाप्यते ॥ १२ ॥ भवेदेकादशी पूर्णा सहस्रारान्तसीमनि । स्याद् द्वादश्यच्युतस्यान्ते क्रमादेवं त्रयोदशी ॥ १३ ॥ भवेद् अवेयकस्यान्ते लोकान्ते च चतुर्दशी। धौर्श्वभागादूर्वाधः सप्तसप्तति रज्जवः ॥ १४ ॥ उपाध्यायश्रीविनयविजयजीकृत लोकप्रकाशे २२ सर्गे ॥ तत्त्वार्थाधिगमसूत्र ३-६ ।