________________
स्याद्वादमञ्जरीसहिता
श्लोक १०
कत्वम् , तत् कादाचित्कम् ; इति न तेन व्यभिचारः; स्याद्वादमन्त्रकवचावगुण्ठितानां च नेदृशबिभीषिकाभ्यो भयम् । इति काव्यार्थः ॥ ९॥
वैशेषिकनैयायिकयोः प्रायः समानतन्त्रत्वादौलूक्यमते क्षिप्ते योगमतमपि क्षिप्तमेवावसेयम् । पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थ प्रत्यसाधकतमत्वे वाच्येऽपि, तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमात्रफलतया अत्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह
स्वयं विवादग्राहिले वितण्डा
पाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन् !
अहो विरक्तो मुनिरन्यदीयः ॥१०॥ अन्ये-अविज्ञातत्वदाज्ञासारतयाऽनुपादेयनामान : परे, तेषामयं शास्तृत्वेन सम्बन्धी अन्यदीयो मुनिः अक्षपाद ऋषिः, अहो! विरक्तः-अहो! वैराग्यवान् । अहो इत्युपहासगर्भमाश्चर्य सूचयति । अन्यदीय इत्यत्र “ ईयकारके" ( हैममू० ३।२।१२१ ॥) इति दोऽन्तः । किं कुर्वन्नित्याह-परमर्म भिन्दन्-जातावेकवचनप्रयोगात् परममाणि व्यथयन् ‘बहुभिरात्मप्रदेशैरधिष्ठिता देहावयवा मर्माणि' इति परिभाषिकी संज्ञा, तत उपचारात् साध्यस्वतत्त्वसाधनाऽव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि मर्मेव मर्म । कस्मात् ताद्भन्दन् ? मायोपदेशाद्धेतोः; माया-परवञ्चनम्, तस्या १ 'एकवचनात् ' इति क. घ. पुस्तकयोः पाठः । २ 'सतत्त्व' इति घ. पुस्तके पाठः ।