________________
श्लोक १०
अन्ययोगव्यवच्छेदिका
उपदेशः-छलजातिनिग्रहस्थानलक्षणपदार्थत्रयप्ररूपणद्वारेण शिष्यभ्यः प्रतिपादनं, तस्मात् “गुणादस्त्रियां न वा" ( हेममू० २।२।७७॥) इत्यनेन हेतौ तृतीयाप्रसङ्गे-पञ्चमी ।
कस्मिन् विषये मायामयमुपदिष्टवान् ?, इत्याह-अस्मिन्-- प्रत्यक्षोपलक्ष्यमाणे, जने--तत्त्वाऽतत्त्वविमर्शबहिर्मुखतया प्राकृतप्राये लोके । कथम्भूते ? स्वयम्-आत्मना परोपदेशनिरपेक्षमेव, विवादग्राहिले-विरुद्धः-परस्परलक्ष्यीकृतपक्षाधिक्षेपदक्षः, वादो-वचनोपन्यासो विवादः । तथा च भगवान् हरिभद्रसूरिः" लब्धिख्यात्यर्थिना तु स्याद् दुःस्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद.इति स्मृतः" ॥१॥
तेन ग्रहिल इव-ग्रहगृहीत इव, तत्र । यथा-ग्रहाद्यपस्मारपरवशः पुरुषो यत्किञ्चनप्रलापी स्याद् एवमयमपि जन इति भावः। ___ तथा, वितण्डा-प्रतिपक्षस्थापनाहीनं वाक्यम् वितण्डयते आहन्यतेऽनया प्रतिपक्षसाधनमिति . व्युत्पत्तेः; " अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते"इति न्यायवार्तिकम् । वस्तुतस्त्वपरामृष्टतत्त्वातत्त्वविचारं मौखर्य वितण्डा; तत्र यत्पाण्डित्यम्-अविकलं कौशलं, तेन कण्डूलं मुखं लपनं यस्य स तथा तस्मिन् । कण्डू:--खजूः, कण्डूरस्यास्तीति कण्डूलम्, सिध्माँदित्वाद् मत्वर्थीयो लप्रत्ययः यथा-किलान्तरुत्पन्नकृमिकुलजनितां
१ श्रीहरिभद्रसूरिकृते १२ अष्टके श्लो. ४ । २ न्यायवार्तिक पृ. १५ पं. ४ सूत्र १ अध्याय १ आह्निक १ । ३ ' हि ' इति रा. क. ख. घ. ह. पुस्तकेष्वधिकम् । ४ ' तथाऽपरामृष्ट ' इति क. पुस्तके पाठः । ५ ' विचारमौखर्यम् ' इति क. पुस्तके पाठः । ६ 'कण्डूलमिव ' इत्यधिकं क. ख. घ. ह. पुस्तकेषु । ७ — सिध्मादिक्षुद्रजन्तुरुग्भ्यः ' हैमसू. ७।२।२१।