________________
स्याद्वादमञ्जरीसहिता
श्लोक १० कण्ड्रति निरोद्धुमपारयन् पुरुषो व्याकुलतां कलयति, एवं तन्मुखमपि वितण्डापाण्डित्येनासंबद्धप्रलापचापलमाकलयत् कण्डूलमित्युपचर्यते।
एवं च स्वरसत एव स्वस्वाभिमतव्यवस्थापनाविसंस्थुलो वैतण्डिकलोकः,तत्र च तत्परमाप्तभूतपुरुषविशेषपरिकल्पितपरवञ्चनप्रचुरवचनरचनोपदेशश्चेत् सहायः समजनि, तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इव कृतो घृताहुतिप्रक्षेप इति; तैश्च भवाभिनन्दिभिर्वादिभिरेतादृशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितम् । तथा चाहुः। __ "दुःशिक्षितकुतर्काशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ? ॥१॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः। मा गादिति च्छलादीनि प्राह कारुणिको मुनिः॥२॥"
कारुणिकत्वं च वैराग्याद न भिद्यते, ततो युक्तमुक्तम्-अहो ! विरक्त इति स्तुतिकारेणोपहासर्वचनम् ।
.. अथ मायोपदेशादिति सूचनासूत्रं वितन्यते,-अक्षपादमते किल षोडशपदार्थाः; प्रमाणेप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञाना निःश्रेयसाधिगमः इति वचनात् । न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निः१ ' स्वाभिमतमत ' इति रा. पुस्तके पाठः।
२ भवाभिनन्दी-असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधिदुग्धाम्बुताम्बूलपुण्यपण्याङ्गनादिभिः ॥ इत्यादिवचनैः संसाराभिनन्दनशीलः ॥
३ 'कुशिक्षित ' इति घ, पुस्तके पाठः । - ४ ' उक्तम् ' इति क. पुस्तके नास्ति ।
.344.
Ann.
. .
४' उक्तम्' इति के. पुरखवा ५ गौतमसूत्र १।१।१।