________________
श्लोक १० . अन्ययोगव्यवच्छेदिका श्रेयसावाप्तिहेतुः । न ह्येकेनेव क्रियाविरहितेन ज्ञानमात्रेण-मुक्तिर्युक्तिमती; असमग्रसामग्रीकत्वातः विघटितैकचक्ररथेन मनीषितनगरप्राप्तिवत् ।
न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः, किन्तु तत्त्वज्ञानपूर्विकाया एव तस्या मुक्तिहेतुत्वमिति ज्ञापनार्थ-तत्वज्ञानाद् निःश्रेयसाधिगम इति ब्रूम इति; न ह्यमीषां संहते अपि ज्ञानक्रियेमुक्तिप्राप्तिहेतुभूते; वितथत्वात् तज्ञानक्रिययोः। न च वितथत्वमसिद्धम् -विचार्यमाणानां षोडशानामपि तत्त्वाभासत्वात्.। तथाहितैः प्रमाणस्य तावद् लक्षणमित्थं सूत्रितम्-"अर्थोपलब्धिहेतुः प्रमाणम्" इति । एतच्च न विचारसहम् यतोऽर्थोपलब्धौ हेतुत्वं यदि निमित्तत्वमात्रं,तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं, तर्हि तज्ज्ञानमेव युक्तं, न चेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति, स तत्करणम्; न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्यपि ज्ञानाभावेऽर्थोपलम्भः। साधकतमं हि करणम्; अव्यवहितफलं च तदिष्यते; व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेरपि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम्; अन्यत्रोपचारात् । यदपि न्यायभूषणसूत्रकारेणोक्तम्-“ सम्यगनुभवसाधनं प्रमाणम्" इति । तत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्यैव प्रमाणत्वं सिध्यति । तथाऽप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवः इति न तत् सम्यग् लक्षणम् । “ स्वपरव्यवसायि ज्ञानं
१ 'आसूत्रितम् ' इति क. पुस्तके पाठः। । २ एतदर्थकं गौमतसूत्रभाष्ये २।१।११ पृ. ९४ पं. ४ ३ उपचारो लक्षणा। ४ न्यायसारे भासर्वज्ञप्रणीते, प्रथमपरिच्छेदे प्रथमसूत्रम् । ५ प्रमाणनयतत्त्वालोकालङ्कारे परिच्छेद १ सूत्र २ ।