________________
.
स्याद्वादमञ्जरीसहिता
श्लोक १०
प्रमाणम्” इति तु तात्त्विकं लक्षणम् ।
प्रमेयमपि तै-आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदाद् द्वादशविधमुक्तम् । तच्च न सम्यंग्; यतः शरीरेन्द्रियबुद्धिमनःप्रात्तदोषफलदुःखानाम्-आत्मन्येवान्तर्भावो युतः; संसारिण आत्मनः कथञ्चित् तदविष्वग्भूतत्वात् । आत्मा च प्रमेय एव न भवति, तस्य प्रमातृत्वात् । इन्द्रियबुद्धिमनसां तु-- करणत्वात् प्रमेयत्वाभावः । दोषास्तु-रागद्वेषमोहाः, ते च प्रवृत्तेर्न पृथग्भवितुमर्हन्ति; वाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिविधस्य तन्मते प्रवृत्तिशब्दवाच्यत्वात् रागादिदोषाणां च-मनो-- व्यापारात्मकत्वात् । दुःखस्य शब्दादीनामिन्द्रियार्थानां च-फल एवान्तावः " प्रवृत्तिदोषजानतं सुखदुःखात्मकं मुख्यं फलं, तत्साधनं तु गौणम्" इति जयन्तवचनात् । प्रेत्यभावापवर्गयोः-पुनरात्मन एव परिणामान्तरापत्तिरूपत्वाद्, न पार्थक्यमात्मनः सकाशादुचितम् तदेवं द्वादशविधं प्रमेयमिति वाग्विस्तरमात्रम् “ द्रव्यपर्यायात्मकं वस्तु प्रमेयम्" इति तु समीचीनं लक्षणम्। सर्वसंग्राहकत्वात् । एवं संशयादीनामपि तत्त्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम् अत्र तु-प्रतीतत्वाद्, ग्रन्थगौरवभयाच न प्रपश्चितम् । न्यक्षेण ह्यत्र न्यायशास्त्रमवतारणीयम् ; तच्चावतार्यमाणं पृथग् ग्रन्थान्तरतामवगाहत इत्यास्ताम् । ___ तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्त्वाभासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादिति पदेनोपक्षेपः कृतः। तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातः-छलम् । तत् त्रिधा-वाक्छलं, सामान्यछलम्, उपचा
--
१ 'अपि' इति क. पुस्तके नास्ति । २ पूर्णत्वेन ॥