________________
૭૨
श्लोक १०
अन्ययोगव्यवच्छेदिका रछलं चेति । तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतांदान्तरकल्पनया तनिषेधो वाक्छलम्; यथा नवकम्बलोऽयं माणवक इति नूतनविवक्षया कथिते, परः संख्यामारोप्य निषेधाति--कुतोऽस्य नव कम्बलाः ?, इति । संभावनयातिप्रसाङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधः-सामान्यछलम्; यथा-अहो ! नु खल्वसौ ब्राह्मणो विद्याचरणसंपन्न इति ब्राह्मणस्तुतिप्रसङ्गे, कश्चिद् वदति-सम्भवति ब्राह्मणे, विद्याचरणसम्पदिति; तत् छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नाभियुङ्क्ते याद ब्राह्मणे विद्याचरणसंपद् भवति, व्रात्येऽपि सा भवेद्, व्रात्योऽपि ब्राह्मण एवेति। औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम्-उपचारछंलम् । यथा-मञ्चाः क्रोशन्तीत्युक्ते, परः प्रत्यवतिष्ठते-कथमचेतना मञ्चाः क्रोशन्ति ?, मञ्चस्थाः पुरुषाः क्रोशन्तीति । .
तथा सम्यग्हेतौ हेत्वाभासे वा वादिनाप्रयुक्ते, झटिति तदोषतत्त्वाप्रतिभासे हेतुप्रतिविम्वनप्रायं किमपि प्रत्यवस्थानं-जातिः, दृषणाभास इत्यर्थः । सा च चतुर्विंशतिभेदा साधादिप्रत्यवस्थानभेदेन; यथा-"साधर्म्यवैधोत्कर्षाऽपकर्षवर्ध्याऽवर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणाऽहेत्वार्थापत्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः"।
तत्र साधर्येण प्रत्यवस्थानं-साधर्म्यसमा जातिर्भवति;-- अनित्यः शब्दः, कृतकत्वाद्, घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव
१ ' अभिप्रेतादर्थात् ' इति रा. पुस्तके पाठः । . २ ' यथा ' शब्दो घ. पुस्तके नास्ति ।
३ ' मञ्चस्थास्तु ' इति क. घ. पुस्तकयोः पाठः । . ४ - प्रतिबन्धनप्रायम् ' इति क. पुस्तके पाठः । ५ गौ, सू. ५।११।