________________
स्याद्वादमञ्जरीसहिता
श्लोक १० प्रत्यवस्थानम्,-नित्यःशब्दो, निरवयवत्वाद, आकाशवत् । न चास्ति विशेषहेतुः-घटसाधात् कृतकत्वादनित्यः शब्दः, न पुनराकाशसाधाद् निरवयवत्वाद् नित्य इति । वैधपेण प्रत्यवस्थानंवैधर्म्यसमा जातिर्भवति;- अनित्यः शब्दः,- कृतकत्वाद् घटवदित्यत्रैव प्रयोगे, स एव प्रतिहेतुवैधर्येण प्रयुज्यते-नित्यः शब्दो निरवयवत्वात्। अनित्यं हि सावयवं दृष्टम् । घटादीति । न चास्ति विशेषहेतुः-घटसाधर्म्यात् कृतकत्वादनित्यः शब्दः, न पुनस्तद्वैध
ाद् निरवयवत्वाद् नित्य इति । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानम्उत्कर्षापकर्षसमे जाती भवतः-तत्रैव प्रयोगे, दृष्टान्तधर्म कश्चित् साध्यधर्मिण्यापादयन् उत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दः घटवदेव मूर्तोऽपि भवतु। न चेद् मूर्तः , घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति । अपकर्षस्तु घटः कृतकः सन्-अश्रावणो दृष्टः, एवं शब्दोऽप्यस्तु । नो चेद् घटबदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति । इत्ये ताश्चतस्रो दिङ्मात्रदर्शनार्थ जातय उक्ताः । एवं शेषा अपि विंशतिरक्षपोदशास्त्रादवसेयाः । अत्र त्वनुपयोगित्वाद् न लिखिताः। . .तथा विप्रविपत्तिरपतिपत्तिश्च-निग्रहस्थानम् । तत्र विपतिपत्तिः-साधनाभासे साधनबुद्धिः, दूषणाभासे च दूषणबुद्धिरिति । अप्रतिपत्तिः साधनस्यादृषणं, दूषणस्य चानुद्धरणम् । तच्च निग्रहस्थान द्वाविंशतिविधम् तद्यथा-१ प्रतिज्ञाहानिः २ प्रतिज्ञान्तरम् ३ प्रतिज्ञाविरोधः ४ प्रतिज्ञासंन्यासः ५ हेत्वन्तरम् ६ अर्थान्तरम् १ निखयवत्वस्वरूपः । २ गौतमसूत्र ५।२।१। ३ तथा च ' इति घ, पुस्तके पाठः।