________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ सिद्धमेव, तद् यदि मोक्षे विशिष्टं नास्ति, ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः । येऽपि विषमधुनी एकत्र सम्पृक्ते त्यज्येते, तेऽपि सुखविशेषलिप्सयैव । किञ्च यथा प्राणिनां संसारावस्थायां सुखमिष्टं दुःखं चानिष्टम्, तथा मोक्षावस्थायां दुःखानिवृत्तिरिष्टा, सुखनिवृत्तिस्त्वनिष्टैव । ततो यदि त्वदभिमतो मोक्षः स्यात्, तदा न प्रेक्षावतामत्र प्रवृत्तिः स्यात् भवति चेयम् । ततः सिद्धोः मोक्षः सुखसंवेदनस्वभावः; प्रेक्षावत्प्रवृत्तेरन्यथानुपपत्तेः। __अथ यदि मुखसंवेदनकस्वभावो मोक्षः स्यात्, तदा तद्रागेण प्रवर्तमानो मुमुक्षुर्न मोक्षमधिगच्छेत् । नहि रागिणां मोक्षोऽस्ति; रागस्य बन्धनात्मकत्वात् । नैवम् । सांसारिकसुख एव रागो बन्धनात्मकः विषयादिप्रवृत्तिहेतुत्वात् मोक्षसुखे तु रागः-तनिवृत्तिहेतुत्वाद् न बन्धनात्मकः परां कोटिमारूढस्य च स्पृहामात्ररूपोऽप्यसौ निवर्तते; "मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" इति वचनात् । अन्यथा भवत्पक्षेऽपि दुःखानिवृत्त्यात्मकमोक्षाङ्गीकृतौ दुःखविषयं कषायकालुष्यं केन निषिध्येत ? इति सिद्धं कृत्स्नकर्मक्षयात् परमसुखसंवेदनात्मको मोक्षो, न बुद्धयादिविशेषगुणोच्छेदरूप इति। _अपि च भोस्तपस्विन् । कथञ्चिदेषामुच्छेदोऽस्माकमप्यभिमत एवेति मा विरूपं मनः कृथाः । तथाहि-बुद्धिशब्देन ज्ञानमुच्यते; तच्च मैतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्चधा । तत्राद्यं ज्ञानचतुष्टयं
१ 'एव' इति क. पुस्तके नास्ति । २ 'अत्र' इति रा. पुस्तके नास्ति । ३ 'सिद्धम्' इति रा. ह. पुस्तकयोः पाठः । ४ 'सिद्धः' इति घ. पुस्तके पाठः । ५ विस्तरतस्तु अस्मन्मुद्रापितसभाध्यतत्त्वार्थाधिगमसूत्रे १-९,१-१५,-१-२०,.१. २१,-१-२४,-१०-१ सूत्रेषु दृष्टव्यम् ।