________________
श्लोक ८
अन्ययोगव्यवच्छेदिका दुःखसंवेदनरूपत्वादस्य-सुखदुःखयोरेकस्याभावे परस्यावश्यम्भावात् । अत एव त्वदुपहासः श्रूयते--
“ वरं वृन्दावने रम्ये क्रोष्ठत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तुमिच्छति " ॥१॥
सोपाधिकसावधिकपरिमितानन्दनिष्यन्दात् स्वर्गादप्यधिक तद्विपरितानन्दमम्लानज्ञानं च मोक्षमाचक्षते विचक्षणाः। याद तु जडः पाषाणनिर्विशेष एव तस्यामवस्थायामात्मा भवेत्, तदलमपवर्गेण संसार एव वरमस्तु । यत्र तावदन्तरान्तसपि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते, चिन्त्यतां तावत्-किमल्पसुखानुभवो भव्यः उत सर्वसुखोच्छेद एव ? । .
अथास्ति तथाभूते मोक्षे लाभातिरेकः प्रेक्षादक्षाणाम् ; ते ह्येवं विवेचयन्ति-संसारे तावद् दुःखास्पृष्टं सुखं न सम्भवति, दुःखं चावश्यं हेयम् , विवेकहानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशेकम् , अत एव द्वे अपि त्यज्येते, ततश्च संसाराद् मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्यात् । वरमियती कादाचित्कसुखमात्रापि त्यक्ता, न तु तस्याः दुःखभार इयान् व्यूढ इति ।। - तदेतत्सत्यम् सांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासवद् दुःखरूपत्वादेव युक्तैव मुमुक्षूणां तज्जिहासा, किन्त्वात्यन्तिकसुखविशेषलिप्सूनामेव । इहापि विषयनिहात्तिजं सुखमनुभव
१ 'तदुपहासः' इति घ. पुस्तके पाठः। २ 'जडः' इति घ. पुस्तके नास्ति । ३ 'सत्प्रेक्षा' इति क, पुस्तके पाठः। ४ 'विचारयन्ति' इति क. पुस्तके पाठः। ५ 'दुःशक्यम्' इति घ. पुस्तके पाठः। ६ 'अतश्च' इति रा. ह. पुस्तकयोः पाठः। ७ 'विशेष' इति क, पुस्तके नास्ति ।