________________
५५ स्याद्वादमञ्जरीसहिता
श्लोक ८ कं च केवलं प्रियमेव, तत्कथं प्रतिषिध्यते ? । आगमस्य चायमर्थःसशरीरस्य-गतिचतुष्टयान्यतमस्थानवर्तिन आत्मनः, प्रियाप्रिययोः–परस्परानुषक्तयोः सुखदुःखयोः-अपहति-- अभावो. नास्तीति । अवश्यं हि तत्र सुखदुःखाभ्यां भाव्यम् । परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते । अशरीरं-मुक्तात्मानं वाशब्दस्यैवकारार्थत्वात् अशरीरमेवः वसन्तं-सिद्धिक्षेत्रमध्यासीनं, प्रियाप्रिये-परस्परानुषक्ते सुखदुःखे न स्पृशतः।
__इदमत्र हृदयम्-यथा किल संसारिणः सुखदुःखे परस्परानुपक्ते स्यातां, न तथा मुक्तात्मनः , किन्तु केवलं सुखमेव; दुःखमूलस्य शरीरस्यैवाभावात् । सुखं त्वात्मस्वरूपत्वादवस्थितमेवः स्वस्वरूपावस्थानं हि मोक्षः; अत एव चाशरीरमित्युक्तम् । आगमार्थश्वायमित्थमेव समर्थनीयः, यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते___ "सुखमात्यन्तिकं यत्र बुद्धिनाह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभिः॥१॥"
न चायं सुखशब्दो दुःखाभावमात्रे वर्तते-मुख्यसुखवाच्यतायां बाधकाभावातः अयं रोगाद् विप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखीति प्रयोगस्य पौनरुक्त्यप्रसङ्गाच्च; दुःखाभावमात्रस्य-रोगाद् विप्रमुक्त इतीयतैव गतत्वात् । ____न च भवदुदीरितो मोक्षः पुंसामुपादेयतया संमतः को हि नाम-शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत;
१।२ एतद्वाक्यं चिन्हान्तर्गतत्वेन अस्मदुपलब्धेषु लिखितपुस्तकेषु नास्ति । तेनास्माभिरपि चिन्हरहितत्वेन मुद्रापितम् ।
३ रहस्यमित्यर्थः । ४ 'प्रयोगस्यापि' इति घ. पुस्तके पाठः ।