________________
श्लोक ८
अन्ययोगव्यवच्छेदिका हि घटत्वे घटग्रहणमिति ज्ञानान्तरात् तद्ग्रहणेन भाव्यम्; इत्यनवस्थानात् कुतः प्रकृतप्रत्ययः । तदेव नात्मनो जडस्वरूपता संगच्छते तदसङ्गतौ च चैतन्यमौपाधिकमात्मनोऽन्यदिति वाङ्मात्रम् ।
तथा यदपि न संविदानन्दमयी च मुक्तिरिति व्यवस्थापनाय अनुमानमवादि-सन्तानत्वादिति । तत्राभिधीयते-ननु किमिदं सन्तानत्वं-स्वतन्त्रम्-अपरापरपदार्थोत्पत्तिमात्रं वा, एकाश्रयापरापरोत्पत्तिर्वा ? तत्राद्यः पक्षः सव्यभिचारः अपरापरेषामुत्पादकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वात् । अथ द्वितीयः पक्षः, तर्हि तादृशं सन्तानत्वं प्रदीपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुः, तथाविधसन्तानत्वस्य तत्र सद्भावेऽप्यत्यन्तोच्छेदाभावात् । अपि च सन्तानत्वमपि भविप्यात, अत्यन्तानुच्छेदश्च भविष्यति-विपर्यये बाधकप्रमाणाभावात्; इति संदिग्धविपक्षव्यावृत्तिकत्वादप्यनैकान्तिकोऽयम् । किञ्च, स्याद्वादवादिनां नास्ति कचिदत्यन्तमुच्छेदः, द्रव्यरूपतया स्थास्नूनामेव सतां भावानामुत्पादव्यययुक्तत्वात् , इति विरुद्धश्च । इति नाधिकृतानुमानाद् बुद्धयादिगुणोच्छेदरूपा? सिद्धिः सिद्धयति ।
नापि “ने हि वै सशरीरस्य" इत्यादेरागमात् ; स हिशुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः। मुक्तिदशायां तु-सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्ति
१ संगच्छेत' इति घ. पुस्तके पाठः । २ जडस्वरूपताप्राप्त्यभावे च । ३ ' सतानस्य ' इति क. पुस्तके पाठः । ४ ' इति ' पदं घ. पुस्तके नास्ति । ५ 'न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति' इति छां. अ. ८।१२ ।