________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ प्रतीतेः। भेदे तथाप्रतीतिरिति चेत् । न; कथञ्चित् तादात्म्याभावे सामानाधिकरण्यप्रतीतेरदर्शनात् । यष्टिः पुरुष इत्यादिप्रतीतिस्तुभेदे सत्युपचाराद् दृष्टा, न पुनस्तात्त्विकी । उपचारस्य तु बीजंपुरुषस्य यष्टिगतस्तब्धत्वादिगुणैरभेदः; उपचारस्य मुख्यार्थस्पर्शित्वात् । तथा चात्मनि ज्ञाताहमितिप्रतीतिः कथञ्चित् चेतनात्मतां गमयति, तामन्तरेण ज्ञाताहमिति प्रतीतेरनुपपद्यमानत्वात् घटादिवत् न हि घटादिरचेतनात्मको ज्ञाताहमिति प्रत्येति चैतन्ययोगाभावादअसौ न तथा प्रत्येतीति चेत् । न, अचेतनस्यापि चैतन्ययोगात् चेतनोऽहमिति प्रतिपत्तेरनन्तरमेव निरस्तत्वात् इत्यचेतनत्वं सिद्धमात्मनो जडस्यार्थपरिच्छेदं - पराकरोतिः तं पुनरिच्छता-चैतन्यस्वरूपतास्य स्वीकरणीया।
ननु ज्ञानवानहमिति प्रत्ययादात्मज्ञानयोर्भेदः, अन्यथा धनवानिति प्रत्ययादपि धनधनवतोर्भेदाभावानुषङ्गाः। तदसत; ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति, जडैकान्तरूपत्वात्, घटवत् । सर्वथा जडश्च स्यादात्मा, ज्ञानवानहमितिप्रत्ययश्च स्याद् अस्य; विरोधाभावात् इति मा निर्णैषीः। तस्य तथोत्पत्त्यसम्भवात् । ज्ञानवानहामिति हि प्रत्ययो न-अगृहीते ज्ञानाख्ये विशेषणे, विशेष्ये चात्मनि जातूत्पद्यते; स्वमतविरोधात्; “ नागृहीतविशेषणा विशेष्ये बुद्धिः" इति वचनात् ।
गृहीतयोस्तयोरुत्पद्यत इति चेत् कुतस्तद्गृहीतिः । न तावत् स्वतः; स्वसंवेदनानभ्युपगमात् । स्वसंविदिते ह्यात्मनि, ज्ञाने च, स्वतः सा युज्यते; नान्यथाः सन्तानान्तरवत् । परतश्चेत्, तदपि ज्ञानान्तरं विशेष्यं-नागृहीते ज्ञानत्वविशेषणे, ग्रहीतुं शक्यम् । गृहीते १ 'जातूपपद्यते' इति घ. पुस्तके पाठः ।