________________
श्लोक ८
अन्ययोगव्यवच्छेदिका ग्रहणपरिणामवान् ज्ञानं गृहीत्त्वार्थ व्यवस्यति, ततश्च ज्ञानात्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एव । एवं कर्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्य किमात्मनि व्यवस्थितं, आहोस्विद् विषये ? इति वाच्यम् । आत्मनि चेत्- सिद्धं नः समीहितम् । विषये चेत् कथमात्मनोऽनुभवः प्रतीयते ? । अथ विषयस्थितसंवित्तेः सकाशादात्मनोऽनुभवः, तर्हि किं न पुरुषान्तरस्यापि?; तद्भेदाविशेषात्।
अथ ज्ञानात्मनोरभेदपक्षे कथं कर्तृकरणभावः, इति चेत्, ननु यथा सर्प आत्मानमात्मना वेष्टयंतीति । अथ परिकाल्पतोऽयं कर्तृकरणभाव चेद् , वेष्टनावस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्वम् ? ; न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तुं शक्यम् तस्मादभेदेऽपि कर्तृकरणभावः सिद्ध एव। किञ्च चैतन्यमिति शब्दस्य चिन्त्यतामन्वर्थः- चेतनस्य भावश्चैतन्यम्। चेतनश्चात्मा त्वयापि कीर्त्यते; तस्य भावः स्वरूपं चैतन्यम् । यच्च यस्य स्वरूपं, न तत् ततो भिन्नं भवितुमहति; यथा वृक्षाद् वृक्षस्वरूपम् ।
अथास्ति चेतन आत्मा, परं चेतना समवायसम्बन्धात, न स्वतः, तथापतीतेः इति चेत् तदयुक्तम् । यतः-प्रतीतिश्चेत् प्रमाणीक्रियते, तर्हि निर्बाधमुपयोगात्मक एवात्मा प्रसिद्धयति; न हि जातचित् स्वयमचेतनोऽहं-चेतनायोगात् चेतनः, अचेतने वा मयि चेतनायाः समवाय इति प्रतीतिरास्ति; ज्ञाताहमिति समानाधिकरणतया
१ ' तमर्थम् ' इति क. पुस्तके पाठः।
२ ' अत्र' इत्यधिक रा. ह. पुस्तकयोः । तथाग्रे — अभेदे ' यथा कर्तृकरणभावस्तथात्रापि । इति रा. ह. पुस्तकयोरधिकम् ।
३ 'तत् ' इति क. पुस्तके नास्ति ।