________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ विनाप्युपपन्ना, तथा इहात्मान ज्ञानमित्ययमपि प्रत्ययस्तं विनैव चेदुच्यते, तदा को दोषः।
अथात्मा कर्ता, ज्ञानं च करणं, कर्तृकरणयोश्च वर्धकिवासिवद् भेद एव प्रतीतः, तत्कथं ज्ञानात्मनोरभेदः ? इति चेत् । न; दृष्टान्तस्य वैषम्यात् । वासी हि बाह्यं करणं, ज्ञानं चान्तरं, तत्कथमनयोः साधर्म्यम् ? न चैवं करणस्य द्वविध्यमप्रसिद्धम् । यदाहुर्लाक्षणिका:
"करणं द्विविधं ज्ञेयं बाह्यमाभ्यन्तरं बुधैः। यथा लुनाति दात्रेण मेरं गच्छति चेतसा" ॥१॥
यदि हि किञ्चित्करणमान्तरमेकान्तेन भिन्नमुपदयते, ततः स्याद् दृष्टान्तदाान्तिकयोः साधर्म्यम्, न च तथाविधमस्ति। न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि दीपादिवत् चक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात्। तथा च सति लोकप्रतीतिविरोध इति ।
अपि च, साध्यविकलोऽपि वासिवर्धकिदृष्टान्तः, तथाहि-नायं वर्धकिः- ' काष्ठमिदमनया वास्या घटायिष्ये' इत्येवं वासिग्रहणपरिणामेनापरिणतः सन् तामगृहीत्वा घटयति, किन्तु तथा परिणतस्तां गृहीत्वा तथा परिणामे च वासिरपि तस्य काष्ठस्य घटने व्याप्रियते, पुरुषोऽपि इत्येवं लक्षणैकार्थसाधकत्वात् वासिवर्धक्योरभेदोऽप्युपद्यते; तत्कथमनयोभैदै एव ?, इत्युच्यते। एवमात्मापि- 'विवक्षितमर्थमनेन ज्ञानेन ज्ञास्यामि' इति ज्ञान
१ 'च' इति ख. घ. पुस्तकयोनास्ति । २ वर्धकिस्त्वष्टा, वासी तच्छस्त्रम् । ३ ' चाभ्यन्तरम् ' इति रा. पुस्तके पाठः । ४ 'नचेदम् ' इति क. पुस्तके पाठः । ५ ' व्याप्रियेत ' इति ख. पुस्तके पाठः ।