________________
श्लोक ८
अन्ययोगव्यवच्छेदिका वात्मान समवायसम्बन्धेन समवेतं ज्ञानं तत्रैव भावावभासं करोतीति चेत् । न समवायस्यैकत्वाद् , नित्यत्वाद् , व्यापकत्वाच, सर्वत्र वृत्तेरविशेषात् , समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः । यथा च घटे रूपादयः समवायसम्बन्धेन समवेताः , तद्विनाशे च तदाश्रयस्य घटस्यापि विनाशः, एवं ज्ञानमप्यात्मान समवेतं, तच्च क्षणिकं, ततस्तद्विनाशे आत्मनोऽपि विनाशापत्तेरनित्यत्वापत्तिः।
अथास्तु समवायेन ज्ञानात्मनोः सम्बन्धः, किंतु स एव समवायः केन तयोः सम्बध्यते ? । समवायान्तरेण चेद्; अनवस्था । स्वेनैव चेत् ; किं न ज्ञानात्मनोरपि तथा ? । अथ यथा प्रदीपस्तत्स्वाभाव्याद् आत्मानं, परंच प्रकाशयति, तथा समवायस्येडगेव स्वभावो यदात्मानं, ज्ञानात्मानौ च सम्बन्धयतीति चेत्, ज्ञानात्मनोरपि किं न तथास्वभावता, येन स्वयमेवैतौ सम्बध्येते ?। किञ्च, प्रदीपदृष्टान्तोऽपि भवत्पक्षे न जाघटीति, यतः प्रदीपस्तावद् द्रव्यं, प्रकाशश्च तस्य धर्मः, धर्मधार्मिणोश्च त्वयात्यन्तं भेदोऽभ्युपगम्यते; तत्कथं प्रदीपस्य प्रकाशात्मकता ?; तदभावे च स्वपरप्रकाशस्वभावताभणितिनिर्मूलैव ।
___यदि च प्रदीपात् प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिष्यते, तदा घटादीनामाप तदनुषज्यते; भेदाविशेषात् । अपि च तौ स्वपरसम्बन्धनस्वभावौ समवायाद भिन्नौ स्याताम् , अभिन्नौ वा ? । याद भिन्नौ ततस्तस्यैतौ स्वभावाविति कथं सम्बन्धः ? ; सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ, ततः समवायमात्रमेव; न तौ; तदव्यतिरिक्तत्वात् तत्स्वरूपवदिति । किञ्च, यथा इह समवायिषु समवाय इति मतिः समवायं
१ 'प्रकाशकस्वभावता ' इति ह. रा. पुस्तकयो पाठः।