________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ नवस्था, तर्हि कथं न सा द्रव्यादिषु ? ; तेषामपि स्वरूपसत्तायाः प्रागेव विद्यमानत्वात् । विशेषेषु पुनः सत्ताभ्युपगमेऽपि न रूपहानिः; स्वरूपस्य प्रत्युतोत्तेजनात् ; निःसामान्यस्य विशेषस्य कचिदप्यनुपलम्भात् । समवायेऽपि समवायत्वलक्षणायाः स्वरूपसत्तायाः स्वीकार उपपद्यत एवाविष्वग्भावात्मकः सम्बन्धः , अन्यथा तस्य स्वरूपाभावप्रसङ्गः, इति बाधकाभावात् तेष्वपि द्रव्यादिवद् मुख्य एव सत्तासम्बन्धः, इति व्यर्थ द्रव्यगुणकर्मस्वेव सत्ताकल्पनम् ।
किश्च तैर्वादिभिर्यो द्रव्यादित्रये मुख्यः सत्तासम्बन्धः कक्षीकृतः, सोऽपि विचार्यमाणो विशीर्येत । तथाहि-यदि द्रव्यादिभ्योऽत्यन्तविलक्षणा सत्ता, तदा द्रव्यादीन्यसद्रूपाणि स्युः । सत्तायोगात सत्त्वमस्त्येवेति चेत्; असतां सत्तायोगेऽपि कुतः सत्त्वम् ? ; सतां तु निष्फलः सत्तायोगः । स्वरूपसत्त्वं भावानामस्त्येवोत चेत्, तर्हि किं शिखण्डिंना सत्तायोगेन? । सत्तायोगात् प्राग् भावो न सन् , नाप्यसन् , सत्तायोगात् तु सनिति चेद; वाङ्मात्रमेतत्; सदसद्विलक्षणस्य प्रकारान्तरस्यासम्भवात्। तस्मात् सतामपि स्यात् कचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ? ।
ज्ञानमाप यद्येकान्तेनात्मनः सकाशाद् भिन्नमिष्यते, तदा तेनचैत्रज्ञानेन मैत्रस्यव, नैव विषयपरिच्छेदः स्यादात्मनः। अथ यत्रै
१. स्वरूपहानिः ' इति रा. ह. पुस्तकयोः पाठः।। २" निर्विशेषं हि सामान्यं भवेत्खरविषाणवत् । सामान्यरहितत्वे तु विशेषास्तद्वदेव
३ 'एव' इति ह. रा. पुस्तकयोरधिकम् । ४ शिखण्डिन्--स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता सैव शिखण्डीति संशया व्यवजहे । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि शिखण्डी पश्चादश्वत्थाम्ना हतः । .