________________
श्लोक ८ अन्ययोगव्यवच्छेदिका
४८ इति महतीयं पश्यतोहरता । यतः परिभाव्यतां सत्ताशब्दार्थःअस्तीति सन् , सतो भावः सत्ता, अस्तित्वं तद्वस्तुस्वरूप; तच्च निर्विशेषमशेषेष्वपि पदार्थेषु त्वयाप्युक्तम् , तत्किमिदमर्द्धजरतीयं-- यद् द्रव्यादित्रय एव सत्तायोगो, नेतरत्र त्रये ? इति । .
अनुवृत्तिप्रत्ययाभावाद् न सामान्यादित्रये सत्तायोग इति चेत् । न तत्राप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् । पृथिवीत्वगोत्वघटत्वादिसामान्येषु सामान्यं सामान्यमिति; विशेषेष्वापि बहुत्वाद्अयमाप विशेषोऽयमपि विशेष इति; समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदाद्-एकाकारप्रतीतेरनुभवात् । ।
स्वरूपसत्त्वसाधर्येण सत्ताध्यारोपात् सामान्यादिष्वपि सत् सदित्यनुगम इति चेत्, तर्हि मिथ्याप्रत्ययोऽयमापद्यते । अथं भिन्नस्वभावेष्वेकानुगमो मिथ्यैवेति चेद् द्रव्यादिष्वपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगमः नैवम् । असति मुख्येऽध्यारोपस्यासम्भवाद्द्रव्यादिषु मुख्योऽयमनुगतैः प्रत्ययः, सामान्यादिषु तु गौण इति चेत् न विपर्ययस्यापि शक्यकल्पनत्वात् ।
सामान्यादिषु बाधकसम्भवाद्-न मुख्योऽनुगतः प्रत्ययः, द्रव्यादिषु तु तदभावाद् मुख्य इति चेद् ; ननु किमिदं बाधकम् । अथ सामान्येऽपि सत्ताऽभ्युपगमे-अनवस्था; विशेषेषु पुनः सामान्यसद्भावे-स्वरूपहानिः, समवायेऽपि सत्ताकल्पने-तद्वृत्त्यर्थ सम्बन्धान्तराभाव इति बाधकानीति चेत् । न; सामान्येऽपि सत्ताकल्पने यद्य
१ पश्यतोहरश्चौरः । पश्यतोहरता चौर्यम् ।
२ षण्णां पदार्थानां साधर्म्यमस्तित्वं ज्ञेयत्वमभिधेयत्वं च इति प्रशस्तकारवचनात् । इति ख, पुस्तकटिप्पन्याम् ।
३ अर्धा जरती अर्धा युवतिरितिवत् । ४ 'नैवम् ' इति नास्ति रा. ह. पुस्तकयोः । ५ ' अनुगमप्रत्ययः' इति क, पुस्तके पाठः। ६ ' अनुगमप्रत्ययः' इति क. पुस्तके पाठः ।