________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥३॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥ तदेवं धिषणादीनां नवानामपि मूलतः। गुणानामात्मनो ध्वंसः सोऽपवर्गः प्रतिष्ठितः ॥५॥ ननु तस्यामवस्थायां कीदृगात्मावशिष्यते ? । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ ६॥ ऊर्मिषटकातिगं रूपं तदस्याहर्मनीषिणः । संसारबन्धनाधीनदुःखकेशाद्यदूषितम् ॥७॥
कामक्रोधलोभगर्वदम्भहर्षा-ऊर्मिषट्कमिति" तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिः, अत्वदीयैः-त्वदाज्ञाबहिर्भूतैः, कणादमतामुगामिभिः, सुसूत्रमासूत्रितम्-सम्यगागमः प्रपञ्चितः। अथवा सुसूत्रामिति क्रियाविशेषणम् ; शोभनं सूत्रं वस्तुव्यवस्थाघटनाविज्ञानं यत्रैवमासूत्रितं-तत्तच्छास्त्रार्थोपनिबन्धः कृतः, इति हृदयस् । " सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः”। इत्यनेकार्थवचनात् ।
अत्र. च सुसूत्रमिति विपरीतलक्षणयोपहासगर्भ प्रशंसावचनम् । यथा-" उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता चिरम् ।" इत्यादि । उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकाराणाम् । तथाहि-अविशेषेण सद्बुद्धिवद्येष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासम्बन्धः स्वीक्रियते, न सामान्यादित्रये,
१ " प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते । जरामृत्यू शरीरस्य षडूमिरहितः शिवः " ॥ इति पुराणे । ख. पुस्तकाटप्पन्याम् ।
२ हेमचन्द्रकृतेऽनेकार्थसंग्रहे द्वितीयकाण्डे श्लो. ४५८ । ३ “विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्" इत्युत्तरार्धम् ।