________________
श्लोक ३२
अन्ययोगव्यवच्छेदिका
विभ्राणे केलि निर्ज्जयाज्जिनतुलां श्रीहेमचन्द्रप्रभौतद्दृब्धस्तुतिवृत्तिनिर्मितिमिषाद् भक्तिर्मया विस्तृता । निर्णेतुं गुण-दूषणे निजगिरां तन्नार्थये सज्जनान् तस्यास्तत्त्वमकृत्रिमं बहुमति: सास्त्यत्र सम्यग् यतः ॥ ९..
समाप्तम्.
२४४
त्वावकाशात्विषा । ये जैनागमतत्त्वलाभललिताः- संसारपारैषिणः । भूयासुर्भुवि हेमचन्द्रगुरवस्तेद्वादशांगीद्विषां । पापोल्लापजुषामशेषमसतां भूकत्वजीवातवः । १ । दि दयित धर्मध्यानसंतानशर्म । त्रिभुवनमुकुटाईत्पाद पूजापरीतं । समयनयगमार्थज्ञानगाथाभिरुच्चैः । कुमतमथनमलो मलिषेणोमुनींद्रः ॥ २ ॥ नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं, सम्यक्त्वामृतसागरोज्वलकलाकल्लोलकोलाहलः । साम्यानंदपदप्रवेशनपटुः सर्वत्र नः सर्वदा । भूयादक्षयचन्द्रवाचकपदां भोजप्रसादोदयः ॥ ३ ॥ ÷श्रीवीरमुक्तिकल्याणात् सं. २२६३ वत्सरे विक्रमनृषतः संवत् १७९३ कार्त्तिकप्रथमपंचम्यां बुधे । श्रीचिंतामणिपार्श्वदेवालयविराजितकृष्णदुर्गाहवपुरे । रत्नेन रत्नत्रयैषिणा दुःकर्मपरिक्षयार्थं । लिखितेयं । ॐ नमो वामेयाय ॥' इत्यधिकं घ. पुस्तके |
१ ख. पुस्तके प्रथमपञ्च श्लोकाः नवमश्च नास्ति ।
२ ' राजिष्णौ कलिनिर्जयाज्जिन इव श्रीहेमचन्द्रप्रभौ ।' इति क . पुस्तकपाठः ।
३ 'किल' इति रा. ह. पुस्तकयोः पाठः ।
४ ' मयाविष्कृता' इति ख. पुस्तके पाठः ।
*विक्रमतः सं. ११३८ हेमाचार्याणां जन्म । सं. ११९९ कुमारपालभूपालतः प्रकाशः। सं.१२१३ देहांतरम् । ये हि देवचंद्राचार्यगुरुकाः सार्द्धत्रिकोटिग्रन्थकर्तारः ॥ ÷सप्तत्युत्तरमुल्लंघ्य शरच्छतचतुष्टयं । श्रीवीर जिननिर्वाणाद्विक्रमो राज्यमासदत् ॥ १ ॥ इति ।