________________
२४३ स्याद्वादमञ्जरीसहिता
श्लोक २२ अन्यान्यशास्त्रतरुसंगतचित्तहारिपुष्पोपमेयकतिचिनिचितप्रमेयैः। दृब्धां मयान्तिमाजिनस्तुतिवृत्तिमेनां मालामिवामलहृदो हृदये वहन्तु।३। प्रमाणसिद्धान्तविरुद्धमत्र यत्किचिदुक्तं मतिमान्द्यदोषात् । .. मात्सर्यमुत्सार्य तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ॥ ४॥
उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणे यत्रेयं प्रतिभाभरादनुमितिर्निर्दम्भमु जम्भते । किं चामी विबुधाः सुधेति वचनोद्गारं यदीयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेवस्विनीम् ॥ ५ ॥ नागेन्द्रगच्छगोविन्दवक्षोऽलंकारकौस्तुभाः। ते विश्ववन्द्या नन्द्यासुंरुदयप्रभसूरयः ॥ ६॥ युग्मम् ॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरियं मनुरंविमितशाकॉन्दे दीपमहसि शनौ ॥७॥
श्रीजिनप्रभसूरीणां साहायोद्भिन्नसौरभा । . श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ८ ॥
१ 'ये ह्युदयप्रभजीवदेवसूरिसन्तानीया वस्तुपालमन्त्रीश्वरवन्दितामयः' इति घ. पुस्तकटिप्पन्याम् ।
२. अकानां वामतो गतिः । १२१४ मिते शाके । .३ :जिनप्रभः सन्देहविषौषधीसंज्ञितकल्पवृत्तिकारकः यतो लभ्यते
सूरीन्द्रस्यान्वये जातो नवाड़ीवृत्तिवेधसः । श्रीजिनेश्वरसूरीणां पौत्रःपात्रमवेधसः ॥ १॥ पुत्रः श्रीमज्जिनसिंहसूरीणां रीणरेफसां ।
जग्रन्थ ग्रन्थमेतं श्रीजिनप्रभमुनिप्रभुः ॥ २ ॥ वैक्रमेऽस्ति कलाविश्वदेवसङ्ख्येऽनुवत्सरे । इत्यादि अत एव इहापि विक्रमतः सं. १३४९ इति मन्तव्यम् ॥' इति घ, पुस्तकटिप्पन्याम् ।
४ दीपावल्याम् ।
५ श्रेयोऽस्तु पा ख्यपरमेश्वरप्रसादात् । इत्यनादिमिथ्यामततापापोहच्छायारुचिरस्याद्वादसहकारतरुमंजरीसंपूर्तिमंजुलतामध्यारोहत् ॥ ध्वस्तात्यन्तकुतर्कतंत्रतिमिराः स्व