________________
श्लोक १४
अन्ययोगव्यवच्छेदिका ये तु सौगताः परासत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वात्मकत्वप्रसङ्गः । तथाहि यथा घटस्य स्वरूपादिना सत्त्वं, तथा यदि पररूपादिनापि स्यात् , तथा च सति स्वरूपादिसत्त्ववत् पररूपादिसत्त्वप्रसक्तेः कथं न सर्वात्मकत्वं भवेत् । परासत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति परासत्त्वं, किन्तु स्वसत्त्वमेव तदिति चेद्-अहो वैदग्धी ! न खलु यदेव सत्त्वं तदेवासत्त्वं भवितुमर्हति । विधिप्रतिषेधरूपतया विरुद्धधर्माध्यासेनानयोरैक्यायोगात् ।
अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेद् अहो ! वाचाटता देवानांप्रियस्य । नहि वयं येनैव प्रकारेण सत्त्वं, तेनैवासत्त्वं येनैव चासत्त्वं, तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम् । तदा क विरोधावकाशः।
योगास्तु प्रगल्भन्ते-सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थप्रतिनियमासिद्धेः, किं तेषामसत्त्वात्मकत्वकल्पनया इति । तदसत्-यथा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटाभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पटादेरापि स्यात् , घटाभावाद् भिन्नत्वादेव । इत्यलं विस्तरेण । __एवं वाचकमपि शब्दरूपं द्वयात्मकम्-एकात्मकमपि सद्अनेकमित्यर्थः । अर्थोक्तन्यायेन शब्दस्यापि भावाभावात्मकत्वात् । अथवा एकविषयस्यापि वाचकस्यानेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुध्नोदराद्याकारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वशादेव पदार्थान्तरेष्वपि तथा वर्तमानः केन वार्यते ? भवन्ति हि वक्तारो योगिनः-शरीरं प्रति घट इति संकेतानां पुरुषेच्छाधीनतयानियतत्वात् । यथा चौरशब्दोऽन्यत्र
१ वैदग्धी-चातुर्यम् । २ देवानांप्रियः-मूर्खः । ३ अर्थपरिपाट्यनुसारमित्यर्थः।