________________
. स्याद्वादमञ्जरीसहिता
श्लोक १४
वस्तु, घटादिकम् । एकात्मकमेव-एकस्वरूपमपि सत् , अनेकम्अनेकस्वरूपम् । अयमर्थः-प्रमाता तावत् प्रमेयस्वरूपं लक्षणेन निश्चिनोति । तच्च-सजातीयविजातीयव्यवच्छेदादात्मलाभ लभते । यथा घटस्य सजातीया मृण्मयपदार्थाः, विजातीयाश्च पटादयः। तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुध्नोदराद्याकारः कम्बुग्रीवो जलधारणाहरणादिक्रियासमर्थः पदार्थविशेषो घट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्धया आरोप्य व्यवच्छिद्यते । अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदानुपपत्तेः।
सर्वभावानां हि भावाभावात्मकं स्वरूपम् । एकान्तभावात्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् । एकान्ताभावात्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सत्त्वात् पररूपेण चासत्त्वाद् भावाभावात्मकं वस्तु । यदाह
“सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याप्यसंभवः" ॥१॥ . ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषामर्थानां ज्ञानम्।सर्वपदार्थपरिच्छेदमन्तरेण तनिषेधात्मन एकस्य वस्तुनो विविक्तंतया परिच्छेदासंभवात् । आगमोऽप्येवमेव व्यवस्थितः
“जे एगं जाणइ से सव्वं जाणइ ।
जे सव्वं जाणइ से एगःजाणइ "॥ तथा—" एको भावः सर्वथा येन दृष्टः।
सर्वे भावाः सर्वथा तेन दृष्टाः॥ सर्वे भावाः सर्वथा येन दृष्टा।।
एको भावः सर्वथा तेन दृष्टः" ॥१॥ १ 'एकस्वरूपमेव' इति क. पुस्तके पाठः । २ विभिन्नतया ।