________________
श्लोक १४
अन्ययोगव्यवच्छेदिका
मानं तेषां सुश्रद्धानम् । इत्यप्रस्तुतमपि शब्दस्य पौगलिकत्वमत्र सामान्यविशेषात्मकत्वसाधनायोपन्यस्तमिति ।
११४
अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तः, अनित्यशब्दवाद्यभिमतः शब्दानेकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिक्षेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्यविशेषात्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् । शब्दार्थयोः कथञ्चित् तादात्म्याभ्युपगमात् । यदाहुर्भद्रबाहुस्वामिपादा:
"अभिहाणं अभियाउ होइ भिण्णं अभिण्णं च । खुरअग्गिमोयगुच्चारणम्हि जंम्हा उ वयणसवणाणं ॥ १ ॥ नवि छेओ नवि दाहो ण पूरणं तेण भिन्नं तु । जम्हा य मोयगुच्चारणम्हि तत्थेव पच्चओ होइ ॥ २ ॥ न य होइ स अन्नत्थे नेण अभिन्नं तदत्थओ एतेन – “विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि " ॥ १ ॥
""
इति प्रत्युक्तम् | शब्दस्य ह्येतदेव तत्त्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति । स च तत् तथा प्रतिपादयन् वाच्यस्वरूपपरिणामपरिणत एव वक्तुं शक्यः, नान्यथा, अतिप्रसङ्गात् । घटाभिधानकाले पटाद्यभिधानस्यापि प्राप्तेरिति ।
अथ वा भङ्ग्यन्तरेण सकलं काव्यमिदं व्याख्यायते - वाच्यं
१ अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । क्षुरा - ऽग्नि- मोदकाच्चारणे यस्मात् तु वदन-श्रवणयोः ॥ १ ॥ नाऽपि च्छेदो नापि दाह्रो न पूरणम्, तेन भिन्नं तु । यस्माच्च मोदकोच्चारेण तत्रैव प्रत्ययो भवति ॥ २ ॥ न च भवति अन्यार्थे तेनाऽभिन्नं तदर्थात् ।
२ 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति वचनात् । इति क. ह. पुस्तकयोरधिकम् । ३ 'सतत्त्वं' इति ख, पुस्तके पाठः ।