________________
११३ स्याद्वादमञ्जरीसहिता
श्लोक १४ भाषांवर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयत एव । यथाशब्दाश्रयः स्पर्शकान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यपरमागुवत्, इति-असिद्धः प्रथमः । द्वितीयस्तु-गन्धद्रव्येण व्यभिचारादनैकान्तिकः। वय॑मानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वारापवरकस्यान्तर्विशति, बहिश्च निति, न चापौद्गलिकम् ।
__ अथ तत्र सूक्ष्मरन्ध्रसंभवाद् नातिनिबिडत्वम्, अतस्तत्र तत्मवेशनिष्क्रमौ । कथमेन्यौद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् । सर्वथा नीरन्ध्र.तु प्रदेशे न तयोः संभवः, इति चेत्-तर्हि शब्देऽप्येतत्समानम् इत्यसिद्धो हेतुः । तृतीयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि-तथैव । गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारात् । न हि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते । पञ्चमः पुनः-आसिद्धः । तथाहि न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद्, रूपादिवत् । इति सिद्धः पौगलिकत्वात् सामान्यविशेषात्मकः शब्द इति । •
न च वाच्यम्-आत्मन्यपौद्गलिकेऽपि कथं सामान्यविशेषात्मकत्वं निर्विवादमनुभूयत इति । यतः-संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिःसह वह्नितापितघनकुट्टितनिर्विभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथञ्चित् पौद्गलिकत्वाभ्यनुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगलिकमपौद्गलिकं च सर्व वस्तु सामान्यविशेषात्मकं, तथाप्यपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मत्वमर्वाग्दृशां न तथा प्रतीतिविषयमायाति । पौद्गलिकेषु पुनस्तत् साध्य
१ सजातीयवस्तुसमुदायो वर्गराशिर्वर्गणा । यां भाषार्थ जीवोऽवलम्बते यां च गृहीत्वा चतुर्विधभाषात्वेन परिणमय्य विसृजति सा भाषावर्गणा ।
१५