________________
श्लोक १४ अन्ययोगव्यवच्छेदिका
११२ सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण तेषामप्येकरूपता इति । -
एकत्वं च सामान्यस्य संग्रहनयार्पणात् सर्वत्र विज्ञेयम् । प्रमाणार्पणात् तस्य कथञ्चिद् विरुद्धधर्माध्यासितत्वम् । सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथञ्चित् प्रतिव्यक्तिभेदात् । एवं चासिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वम् । कथञ्चिद् विरूद्धधर्माध्यासितत्वं चेद विवक्षितम्-तदाऽस्मत्कशाप्रवेशः । कथञ्चिद् विरुद्धधर्माध्यासस्य कथञ्चिद् भेदाविनाभूतत्वात् । पाथ:पावकदृष्टान्तोऽपि साध्यसाधनविकलः । तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासः, भेदश्च । द्रव्यवादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्यविशेषात्मकत्वं वस्तुनो घटते इति । ततः सुष्टूक्तं वाच्यमेकमनेकरूपम् इति । ____ एवं वाचकमपि शब्दाख्यं द्वयात्मकम्-सामान्यविशेषात्मकम्। सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकम् । शाङ्खशातीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् । शब्दस्य हि सामान्याविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तमेव। तथाहि-पोद्गलिकः शब्दः, इन्द्रियार्थत्वात् रूपादिवत् ।
यच्चास्य पौगलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात्' अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् 'पूर्व पश्चाच्चावयवानुपलब्धेः; मूक्ष्ममूर्तद्रव्यान्तराप्रेरकत्वाद्,' गगनगुणत्वात् ' चति पञ्च हेतवो यौगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहि-शब्दपर्यायस्याश्रयो
१ 'तेषाम्' इति ख, पुस्तके पाठः ।। २ तद्विपरीतम्' इति रा. ख. घ. पुस्तकेषु पाठः । . ३ शङः- कंजः-शृङ्ग- वाद्यविशेषः । उच्चैरुदात्तः। नीचैरनुदात्तः । समाहारः स्वरितः।