________________
१११
. स्याद्वादमञ्जरीसहिता
श्लोक १५ केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्यान्यतरद व्यवस्थापयन्ति बालिशाः । सोऽयमन्धगजन्यायः ।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गरप्रहारजर्जरितत्वाद् नोच्छासितुमपि क्षमाः ।
स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कैथश्चिद् भिन्नं, कथञ्चिदभिन्न, कथञ्चित् तदात्मकत्वाद्, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामात्मकसामान्यदर्शनात् समानेति तेन समानो गौरयम् , सोऽनेन समान इति प्रतीतेः । न चास्य व्याक्तस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः । यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, नच तेषां गुणरूपताव्याघातः । कथञ्चिद् व्यतिरेकस्तुरूपादीनामिव सदृशपरिणामस्याप्यस्त्येव । पृथव्यपदेशादिभाक्त्वात् ।
विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माध्यासः स्यात् । न च तस्य तत् सिद्धम् । प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथञ्चित् परस्पराव्यतिरेकेणेकानेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि
१ जन्मान्धैर्दशभियथाक्रमं पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा गजावयवाः स्पृष्टाः । ततः तेऽन्धाः स्वस्पृष्टरूपं स्तम्भाद्याकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति तदितरान्निषेधयन्ति तद्वत् ।
२ खण्डनीयाः । ३ 'कथंचिद्भिन्नम्' इति रा. पुस्तके नास्ति । ४ 'प्रतीतिः' इति क. पुस्तके पाठः । ५ 'व्यपदेश' इति क. पुस्तके पाठः ।