________________
श्लोक १४
अन्ययोगव्यवच्छेदिका दर्शनात् । तस्माद् विशेषमभिलषता, तत्रं च व्यवहारं प्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः ।
एवं सामान्यस्थाने विशेषशब्दं, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बोधो विवक्तोऽङ्गीकर्तव्यः। तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्प्रतिभासमानत्वाद् द्वावपतिरेतरविशकलितौ । ततो न सामान्यविशेषात्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः।
तदेतत् पक्षत्रयमपि न क्षमते क्षोदम् । प्रमाणबाधितत्वात् । सामान्यविशेषोभयात्मकस्यैव च वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्-अर्थक्रियाकारित्वम् । तच्चानेकान्तवादे एवाविकलं कलयन्ति परीक्षकाः । तथाहि-यथा गौरित्युक्ते खुरककुत्सास्नालाङ्गुलविषाणाद्यवयवसंपन्नं वस्तुरूपं सर्वव्यक्त्यनुयाय प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते ।
यत्रापि च शबला गौरित्युच्यते, तत्रापि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । शबलेति केवलविशेषोच्चारणेऽपि, अर्थात् प्रकरणाद् वा गोत्वमर्नुवर्तते । अपिच, शबलत्वमपि नानारूपम् । तथा दर्शनात् । ततो वक्त्रा शवलेत्युक्ते क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शवलत्वं व्यवस्थाप्यते । तदेवमावालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषात्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि कचित् कदाचितू केनचित् सामान्यं विशेषविनाकृतमनुभूयते । विशेषा वा तद्विनाकृताः। १ 'तत्र' इति क. पुस्तके नास्ति । २ 'च' इति ख, पुस्तके नास्ति । ३ अनिन्द्यपद्धत्या। ४ अत्र 'इति' पदमधिकं क. पुस्तके ।