________________
१०९
स्याद्वादमञ्जरीसहिता
श्लोक १४
I
लभ्यते । सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्ती: क्रोडीकरोति, एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् । असर्वगतं चेद - विशेषरूपापत्तिः, अभ्युपगमबाधथ ।
अथानेकं गोत्वाश्वत्वघटत्व पटत्वादिभेदभिन्नत्वात् ते तर्हि विशेषा एव स्वीकृताः । अन्योन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वात्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् । तच्च विशेषेष्वेव स्फुटं प्रतीयते । नहि सामान्येन काचिदर्थक्रिया क्रियते । तस्य निष्क्रियत्वात् । वाहदोहादिकासु-- अर्थक्रियासु विशेपाणामेवोपयोगात । तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा । भिन्नं चेद्-अवस्तु । विशेषविश्लेषणार्थक्रियाकारित्वाभावात् । अभिन्नं चेद - विशेषा एव तत्स्वरूपवत् । इति विशेषैकान्तवादः ।
नैगमनयानुगामिनस्त्वाहु: - स्वतन्त्रौ सामान्यविशेषौ । तथैव प्रमाणेन प्रतीतत्वात् । तथाहि - सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात् यावेवं तावेवं, न्यथा पार्थः पावकों, तथा चेतौ, तस्मात् तथा । सामान्यं हि गोत्वादि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयादयो विशेषाः । ततः कथमेषामैक्यं युक्तम् ।
,
न सामान्यात् पृथग् विशेषस्योपलम्भ इति चेत्, कथं तर्हि तस्योपलम्भ इति वाच्यम् । सामान्यव्याप्तस्येति चेद्-न तर्हि स विशेषोपलम्भः । सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तद्वाचकं ध्वनिं तत्साध्यं च व्यवहारं न प्रवर्तयेत् प्रमाता न चैतदस्ति । विशेषाभिधानव्यवहारयोः प्रवृत्ति
१ व्याप्नोति ।
२ 'ते' इति क पुस्तके नास्ति ।
३ वाहः – शकटवहनम् |
४ विश्लेषः - वियोगः ।
५ पाथः - उदकम् ।