________________
श्लोक १४
अन्ययोगव्यवच्छेदिका तथा येभ्यो व्यावृत्तिः, ते सद्रूपा असद्रूपा वा । असद्रूपाश्वेत्-तर्हि खरविषाणात् किं न व्यात्तिः । सद्रूपाश्चेत्-सामान्यमेव । या चेयं व्यावृत्तिर्विशेषैः क्रियते- सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा, अनेका चेत्--तस्या अपि विशेषत्वापत्तिः, अनेकरूप-- त्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्यथानुपपत्तेावृत्त्या भाव्यम् । व्यावृत्तेरापि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरूपभूताया व्यावृत्तेः प्रतिषिद्धत्वात्, अनवस्थापा. ताच । एका चेत्-सामान्यमेव संज्ञान्तरेण प्रतिपन्नं स्यात्, अनुवृत्तिप्रत्ययलक्षणाव्यभिचारात् । किञ्च, अमी विशेषाः सामान्याद् भिन्ना अभिन्ना वा ? भिन्नाश्चेद् मण्डूकजटाभारानुकाराः। अभिनाश्चेत् तदेव, तत्स्वरूपवत् । इति सामान्यैकोन्तवादः। .
पर्यायनयान्वयिनस्तु भाषन्ते-विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः । ततो विष्वग्भूतस्य सामान्यस्याप्रतीयमानत्वात् । नहि गवादिव्यक्त्यनुभवकाले वर्णसंस्थानात्मकं व्यक्तिरूपमपहाय, अन्यत्किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते । तादृशस्यानुभवाभावात् । तथा च पठन्ति"एतासु पञ्चस्ववभासनीषु प्रत्यक्षबोधे स्फुटमङ्गलीषु । साधारणं रूपमवेक्षते यःशृङ्गं शिरस्यात्मन ईक्षते सः"१॥ ____ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यते । इति न तेन सामान्यसाधनं न्याय्यम् ।
किञ्च, यदिदं सामान्यं परिकल्प्यते-तदेकमनेकं वा । एकमापि सर्वगतमसर्वगतं वा । सर्वगतं चेत्-किं न व्यक्त्यन्तरालेषूप१ मण्डूके केशा न भवन्ति । तेन जटानामसंभवः । २ 'सामान्यैकान्तः' इति क, ख. घ. पुस्तकेषु पाठः। ३ वर्णाकृतिरूपम् । संस्थानं-आकृतिः ।। ४ अशोकविरचितसामान्यदूषणादिक्प्रसारिताग्रन्थे ।