________________
१०७
- स्याद्वादमञ्जरीसहिता
श्लोक १४ ___एतच्च पक्षत्रयमपि किश्चित् चर्च्यते-तथाहि-संग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति-सामान्यभेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् अविशेषेण सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थान्तरभूतानां धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः। किञ्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न वा । नो चेद्-निःस्वभावताप्रसङ्गः । स्वरूपस्यैवाभावात् । अस्ति चेत्-तर्हि तदेव सामान्यम् । यतः समानानां भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव ।
अपि च विशेषाणां व्यावृत्तिप्रत्ययहेतुत्वं लक्षणम् । व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते । व्यावृत्तिर्हि-विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कथं पदार्थान्तरप्रतिषेधे प्रगल्भते । न च स्वरूपसत्त्वादन्यत् तत्र किमापि, येन तनिषेधः प्रवर्तते । तत्र च व्यावृत्तौ क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वत्रयवर्तिनोऽतीतवर्तमानानागताः पदार्थास्तस्माद् व्यावर्तनीयाः । ते च नाज्ञातस्वरूपा व्यावतयितुं शक्याः । ततश्चैकस्यापि विशेषस्य परिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् न चैतत्प्रातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु-निषेधः । स चाभांवरूपत्वात् तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् ।
- १ विचार्यते।
२ गतिमतां गतरुपग्रहो धर्मस्य लक्षणम् । स्थितिमतां स्थितेरुपग्रहोऽधर्मलक्षणम् । वर्तनालक्षणः कालः । द्रुमादिपुष्पोद्भेदादिनयत्यहेतु । तत्त्वार्थाधिगमसूत्रस्य पञ्चमाध्याये ।
३ 'अज्ञातस्वरूपा' इति क, पुस्तके पाठः । ४ 'व्यावृत्तिश्च' इति क. ख. घ. पुस्तकेषु पाठः। ५ प्रतीतिगोचरं प्राप्नोति ।