________________
१८६
श्लोक १४
सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकम् - अनेकरूपम् । अथवाऽनेकरूपमपि एकात्मकम् । अन्योऽन्यं संवलितत्वादित्यमपि व्याख्याने न दोषः । तथा च वाचकम् - अभिधायकं, शब्दरूपम् । तदप्यवश्यम् - निश्चितं । द्वयात्मकं सामान्यविशेषोभयात्मकत्वादएकानेकात्मकमित्यर्थः । उभयत्र वाच्यलिङ्गत्वेऽप्यव्यक्तत्वाद् नपुंसकत्वम् । अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकात्मकत्वं निश्चिन्वत् तदेकान्तं व्यवच्छिनत्ति । अतः - उपदर्शितप्रकारात्, अन्यथा - सामान्यविशेषैकान्तरूपेण प्रकारेण, वाचकवाच्यक्लृप्तौवाच्यवाचकभावकल्पनायाम्, अतावकानाम्--अत्वदीयानाम्, अन्ययूथ्यानाम् । प्रतिभाप्रमादः - प्रज्ञास्खलितम् इत्यक्षरार्थः । अत्र चाल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्मायोऽर्थप्रतिपादनस्य शब्दाधीनत्वेन वाचकस्यायत्वज्ञापनार्थम् । तथाच शाब्दिकाः
1
" नै सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते " ॥ १ ॥ इति ।
भावार्थत्वेवम् एके तीर्थिकाः सामान्यरूपमेव वाच्यतयाभ्युपगच्छन्ति । ते च द्रव्यास्तिकनयानुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिच्च विशेषरूपमेव वाच्यं निर्वचन्ति । ते च पर्यायास्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्षते । ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च ।
—
अन्ययोगव्यवच्छेदिका
१ 'व्याख्याते' इति ख. पुस्तके पाठः ।
२ “लध्वक्षरासखीदुत्स्वराद्यल्पस्वरार्च्यमेकम्” ३ [ १ । १६० इति है मशब्दानुशासनात् । ३ ' अर्घ्यत्व' इति क . पुस्तके पाठः ।
४ श्रीभर्तृहरिकृत वाक्यपदीयस्य प्रथमकाण्डे श्लोक १२४ ।
५ ' वाच्यतया शब्दार्थतया' इति क पुस्तके पाठः ।