________________
।
स्याद्वादमञ्जरीसहिता
श्लोक १४
मेतेभ्योऽनुमानमात्मानमासादयति । यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात् , तर्हि द्वैतस्यापि वाङ्मात्रतः कथं न सिद्धिः। तदुक्तम्
"हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः। हेतुना चेद् विना सिद्धिद्वैतं वाङ्मावतो न किम् "॥१॥
"पुरुष एवेदं सर्वम्" इत्यादेः, “सर्व वै खल्विदं ब्रह्म" इत्यादेश्यागमादपि न तत्सिद्धिः। तस्यापि द्वैताविनाभावित्वेन अद्वैत प्रति प्रामाण्यासम्भवात् । वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात् । तदुक्तम्
"कर्मद्वैत फलद्वैतं लोकद्वैतं विरुध्यते ।। विद्याऽविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा" ॥१॥
ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाद्वैतलक्षणमेकमेव प्रमाणस्य विषयः। इति सुव्यवस्थितः प्रपञ्चः। इति काव्यार्थः॥१३॥
अथ स्वाभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनपुरःसरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाभावमाह
अनेकमेकात्मकमेव वाच्यं . द्वयात्मकं वाचकमप्यवश्यम् ।।
अतोऽन्यथा वाचकवाच्यक्लप्ता... वतावकानां प्रतिभाप्रमादः॥१४॥ वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु,एवकारस्याप्यर्थत्वात् १ आतमीमांसा. द्वितीयपरिच्छेदे श्लो. २६ । २ ऋग्वेदे पुरुषसूक्ते । ३ छां. उ. ३-१४ । ४ आतमीमांसा द्वितीयपरिच्छेदे श्लो. २५ । ५ मतान्तरीयवादिप्रकल्पितम् ।