________________
श्लोक १३
अन्ययोगव्यवच्छेदिका न पेशलम् । प्रत्यक्षेण ह्यनुवृत्तव्यावृत्ताकारात्मकवस्तुन एव प्रकाशनात् । एतच्च प्रागेव क्षुण्णम् । न ह्यनुस्यूतमेकमखण्डं सत्तामात्रं विशेषनिरपेक्षं सामान्यं प्रतिभासते। येन 'यदद्वैतं तब्रह्मणो रूपम्' इत्याद्युक्तं शोभते । विशेषनिरपेक्षस्य सामान्यस्य खरविपाणवदप्रतिभासनात् । तदुक्तम्
"निर्विशेष हि सामान्यं भवेत् खरविषाणावत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि" ॥१॥ ___ ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वम् । यच्च प्रमेयत्वादित्यनुमानमुक्तम्, तदप्येतेनैवापास्तं बोद्धव्यम् । पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् । यच्च तत्सिद्धौ प्रतिभासमानत्वसाधनमुक्तम् , तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालम् । प्रतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा । न तावत् स्वतः। घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः। परतः प्रतिभासमानत्वं च-परं विना नोपपद्यते इति ।
यच्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानामित्युक्तम् । तदप्यत्र स्थलेऽन्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव । न च घटादीनां चैतन्यान्वयोऽप्यस्ति । मृदाद्यन्वयस्यैव तत्र दर्शनात् । ततो न किञ्चिदेतदपि । अतोऽनुमानादपि न तत्सिद्धिः ।
किञ्च, पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा । भेदे द्वैतसिद्धिः। अभेदे त्वेकरूपतापत्तिः। तत् कथ
१ विचारपूर्व खण्डितम् ।
२ 'शोभेत' इति रा. क. ख. घ. ह. पुस्तकेषु पाठः । __ ३ मीमांसाश्लोकवार्तिकसूत्र ५ आकृतिवादे " निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच विशेषास्तद्रदेव हि " ॥१० ।। इति।