________________
स्याद्वादमञ्जरीसहिता
श्लोक १३ रपि तत्सिद्धेः । कृत्रिमेणापि आगमेन तस्यैव प्रतिपादनात् । उक्तं च
“सर्व वै खल्विदं ब्रह्म नेह नानाऽस्ति किश्चन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन"॥१॥ इति
प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्त्वम्, सकलभेदानां तद्विवर्तत्वात् । तथा हि-सर्वे भावा ब्रह्मविवर्ताः, सत्त्वैकरूपेणान्वितत्वात् । यद् यद्रूपेणान्वितं तत् तदात्मकमेव । यथा-घटघटीशरावोदश्चनादयो मृद्रूपेणैकेनान्विता मृद्विवर्ताः सत्त्वैकरूपेणान्वितं च सकलं वस्तु, इति सिद्धं ब्रह्मविवर्तित्वं निखिलभेदानामिति ।
तदेतत् सर्व मदिरारसास्वादगद्गदोद्गदितमिवाभासते, विचारासहत्वात् । सर्व हि वस्तु प्रमाणसिद्धं, न तु वाङ्मात्रेण । अद्वैतमते च प्रमाणमेव नास्ति, तत् सद्भावे द्वैतप्रसङ्गात् । अद्वैतसाधकस्य प्रमाणस्य द्वितीयस्य सद्भावात् । अथ मतम् लोकप्रत्यायनाय तदपेक्षया प्रमाणमप्यभ्युपगम्यते । तदसत् । तन्मते लोकस्यैवासम्भवात्, एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्त्वात् ।
__ अथास्तु यथा कथञ्चित् प्रमाणमपि । तात्किं प्रत्यक्षमनुमानमागमो का तत्साधकं प्रमाणमुररीक्रियते । न तावत् प्रत्यक्षम् । तस्य समस्तवस्तुजातगतभेदस्यैव प्रकाशकत्वात् । आबालगोपालं तथैव प्रतिभासनात्। यच्च 'निर्विल्पकं प्रत्यक्षं तदावेदकम्' इत्युक्तम्। तदपि न सम्यक् । तस्य प्रामाण्यानभ्युपगमात् । सर्वस्यापि प्रमाणतत्त्वस्य व्यवसायात्मकस्यैवाविसंवादकत्वेन प्रामाण्योपपत्तेः। सविकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परमब्रह्मणः स्वप्नेऽप्यप्रतिभासनात् । ___ यदप्युक्तं-" आहुर्विधातृ प्रत्यक्षम्" इत्यादि। तदपि १ 'सिद्धिः' इति ख, पुस्तके पाठः ।