________________
श्लोक १३
अन्ययोगव्यवच्छेदिका
अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि —विधिरेव तत्त्वं, प्रमेयत्वात् यतः प्रमाणविषयभूतोऽर्थः प्रमेयः प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वेनैव भट्टत्तेः । तथा चोक्तम् —
"प्रत्यक्षाद्यवतारः स्याद् भावांशी गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षिते " ॥ १ ॥
१०२
यच्चाभावाख्यं प्रमाणं । तस्य प्रामाण्याभावाद्-नं तत् प्रमाणम् । तद्विषयस्य कस्यचिदप्यभावात् । यस्तु प्रमाणपञ्चकविषयः स विधिरेव । तेनैव च प्रमेयत्वस्य व्याप्तत्वात् । सिद्धं प्रमेयत्वेन विधिरेव तत्त्वम्, यत्तु न विधिरूपं तद् न प्रमेयम्, यथा खरविषाणम्, प्रमेयं चेदं निखिलं वस्तुतत्त्वम् तस्माद् विधिरूपमेव ।
अतो वा तत्सिद्धि: - ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः, प्रतिभासमानत्वात्, यत्प्रतिभासते तत्प्रतिभासान्तः प्रविष्टम्, यथा प्रतिभासस्वरूपम्, प्रतिभासन्ते च ग्रामारामादयः पदार्थाः, तस्मात् प्रतिभासान्तः प्रविष्टाः ।
'आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते -" पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ।" यजति, यन्नैजति, यद् दूरे, यदन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः" इत्यादि । “ श्रोतव्यो मन्तव्यो निदिध्यासितव्य :" इत्यादिवेदवाक्यै -
CC
१ प्रत्यक्षाद्यवतारस्तु भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तिरभावांशे जिघृक्षिते " ॥ १७ ॥ इति मीमांसाश्लोकवार्तिकसूत्र ५ अभावपरिच्छेद ।
२ गृहीतुमिष्टे ।
३ ऋग्वेद पुरुषसूक्ते ।
४ ईशावास्योपनिषदि ।
५ अत्र 'श्रोतव्योऽयमात्मा मन्तव्यो निदिध्यासितव्योऽनुमन्तव्य' इति विकृतः पाठो बहुषु स्याद्वादमञ्जरी पुस्तकेषूपलभ्यते । परं वेदवाक्यं तथा नास्ति । इदं बृ. उपनिषदि ।