________________
. स्याद्वादमञ्जरीसहिता
श्लोक १३ अद्वैतवादमाकारे खैण्डिपातात् । अथासत्यम्, तर्हि न किश्चित् तेन साधयितुं शक्यम् , अवस्तुत्वात् । अभिन्नं चेत् , प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्तिः । मिथ्यारूपं च तत् कथं स्वसाध्यसाधनायालम् । एवं च प्रपञ्चस्यापि मिथ्यारूपत्वासिद्धेः कथं परमब्रह्मणस्तात्त्विकत्वं स्यात् ? यतो बाह्यार्थाभावो भवेदिति ।
__ अथवा प्रकारान्तरेण सन्मात्रलक्षणस्य परमब्रह्मणः साधनं दूषणं चोपन्यस्यते । ननु परमब्रह्मण एवैकस्य परमार्थसतो विधिरूपस्य विद्यमानत्वात् प्रमाणविषयत्वम् । अपरस्य-द्वितीयस्य कस्यचिदप्यभावात् । तथाहि-प्रत्यक्षं तदावेदकमस्ति । प्रत्यक्षं द्विधा भिद्यते-निर्विकल्पकसविकल्पकभेदात् । ततश्च निर्विकल्पकप्रत्यक्षात सन्मात्रविषयात् तस्यैकस्यैव सिद्धिः । तथा चोक्तम्
“ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालम्कादिविज्ञानसदृशं शुद्धवस्तुजम् ॥१॥
न च विधिवत् परस्परव्यावृत्तिरध्यय॑क्षत एव प्रतीयते-इति द्वैतसिद्धिः । तस्य निषेधाविषयत्वात् । 'आहुर्विधातृ प्रत्यक्ष न निषे" इत्यादिवचनात् । यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं, तदपि सत्तारूपेणान्वितानामेव तेषां प्रकाशकत्वात् सत्ताद्वैतस्यैव साधकम् । सत्तायाश्च परमब्रह्मरूपत्वात् । तदुक्तम्-“यदद्वैतं तद् ब्रह्मणो रूपम्" इति । १ 'खड्गपातात् ' इति रा, पुस्तके पाठः ।
२ इदं च वादस्थलं काव्यार्थव्याख्यानुरोधेन नियन्त्रितमेवोपन्यस्तं सांप्रतमुक्तलक्षणमेवोपन्यस्यामः ।
३ — द्वितीयस्य ' इति ख. पुस्तके नास्ति । ४ ' प्रत्यक्षं हि ' इति क. पुस्तके पाठः । ५ मीसांसाश्लोकवार्तिकसूत्र ४ प्रत्यक्षसूत्रे श्लोक ११.२ ।
६ ' अपि प्रत्यक्षात् ' इति क. पुस्तके पाठः । तदने ' एव' इति ख. पुस्तके नास्ति ।