________________
११७ स्याद्वादमञ्जरीसहिता
श्लोक १४ तस्करे रूढोऽपि, दाक्षिणात्यानामोदने प्रसिद्धः। यथा च कुमारशब्दः पूर्वदेशे अश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः। कालापेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले, षड्गुरुशब्देन–शतमशीत्यधिकमुपवासानामुच्यते स्म, सांप्रतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देन-उपवासत्रयमेव सङ्केत्यते, जीतकल्पव्यवहारानुसारात् । शास्त्रापेक्षया तु यथा पुराणेषु द्वादशीशब्दे
१. दृढीक्रियन्ते शरीरपुद्गलाः येन तत्संहननं तच्चास्थिनिचयः कीलिकादिरूपाणामस्थ्नां निचयो रचनाविशेषोऽस्थिनिचयः । शक्तिविशेष इत्यन्ये । तत्संहननं षट्प्रकारैर्भवति- १ वज्रऋषभनाराचं-द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यं वज्रनामकमस्थि यत्र भवति तद्वऋषभनाराचम् । २ ऋषभनाराचं-कीलिकारहितं संहननं तत् ऋषभनाराचम् । ३ नाराचं-मर्कटबन्धः केवलो भवति न पुनः कीलिका भवति ऋषभसंज्ञः पट्टश्च तन्नाराचम् । ४ अर्धनाराचं-एकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवंति तदर्धनाराचम् । ५ कीलिका-अस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननम् । ६ सेवार्त-यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च परिशीलनां नित्यमपेक्षते तत्सेवार्तम् ।। __ २ श्रीजिनभद्रगणिक्षमाश्रमणकृतो गाथाग्रन्थो जीतकल्पाख्यः । जीतमाचरितं तस्य कल्पो वर्णना प्ररूपणा जीतकल्पः । तत्राद्यगाथापञ्चकेन शास्त्रप्रस्तावनामभिधाय (४) चतसृभिर्गाथाभिराद्यस्य, (४) चतसृभिर्द्वितीयस्य, (३) तिसृभिस्तृतीयस्य, (२) द्वाभ्यां चतुर्थस्य, (५) पंचमिः पञ्चमस्य, (५८) अष्टपञ्चाशद्भिर्गाथाभिर्ज्ञानाचारादि (आदिशब्देन दर्शनाचार-चारित्राचार-तपाचार-वीर्याचाराणां ग्रहणम् ) पंचकातिचारगोचरस्य षष्ठस्य, (३) तिसृभिः सप्तमस्य, (४) चतसृभिरष्टमस्य, (७) सप्तभिर्नवमस्य, (९) नवभिर्दशमस्य प्रायश्चित्तस्य व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः । मूलसंख्या १०८, टीका १२०००, सेनकृतचूर्णिः (प्राकृतभाषाटीका) १०००, भाष्यम् ३१२४, सम्पूर्णसंख्या १६२३२। चूर्णिव्याख्या ११२०, अस्य लघुवृत्तिः श्रीसाधुरत्नकृता ५७०० श्रीतिलकाचार्यकृता च १५०० ।