________________
श्लोक १४ अन्ययोगव्यवच्छेदिका
११८ नैकादशी । त्रिपुरार्णवे च-अलिशब्देन मदिराभिषक्तम् च मैथुनशब्देन मधुसर्पिषोर्ग्रहणम् इत्यादि ।
न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं, स्वाभाविकसामर्थ्यसाचिव्यादेव तत्र तस्य प्रवृत्तेः, सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र तमर्थं प्रतिपादयति । ... तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादाः'स्वाभाविकसामर्थ्य समयाभ्यामर्थबोधनिबन्धनं शब्दः' इँति । अत्र शक्तिपदार्थसमर्थनं ग्रेन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्ध पूर्ववत् । प्रतिभाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य । प्रतिनियतार्थविषयत्वे च वाचकस्य उक्तन्युक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः । तदयं समुदायार्थः-सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभावात्मकश्च ध्वनिर्वाचक इति । अन्यथा प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति, न तु तद्भणितयो युक्तिस्पर्शमात्रमाप सहन्ते । .
कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । “अपोह एव शब्दार्थः" इत्येके । “अपोहः, शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते" इति वचनात् । अपरे १ अयं शाक्तमार्गीयो ग्रन्थः । २ 'मदिराभिषिक्तान्ने च' इति रा. पुस्तके पाठः । ३ प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरिच्छेदे सू. १.१ । ४ 'इति' पदं क. ख. रा. ह. च. पुस्तकेषु नास्ति । ५ स्याद्वादरत्नाकरपरि. २ सू. १ इत्यादयः । ६ बौद्धाः। ७ 'च' इत्याधिकं क. ख. घ. ह. पुस्तकेषु ।