________________
११९ स्याद्वादमञ्जरीसहिता
श्लोक १५ सामान्यमात्रमेव शब्दानां गोचरः । तस्य कचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतविषयतोपपत्तेः। न पुनर्विशेषाः । तेषामानन्त्यतः कात्स्न्येनोपलब्धुमशक्यतया तद्विषयतानुपपत्तेः। विधिवादिनस्तुविधिरेव वाक्यार्थः, अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्याचक्षते । विधिरपि-तत्तद्वादिविप्रतिपत्त्यानेकप्रकारः। तथाहि वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिरित्येके । तद्व्यापारो भावनापरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे । प्रैषादय इत्येके । तिरस्कृततदुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्मादयोऽपि वाच्याः । एतेषां निराकरणं सपूर्वोत्तरपक्षं न्यायकुमुदचन्द्रादवसेयमिति । इति काव्यार्थः ॥ १४॥ ..
इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्त्वानां विरोधावरुद्धत्वं ख्यापयन् , तद्धालिशताविलसितानामपरिमितत्वं दर्शयति
चिदर्थशून्या च जडा च बुद्धिः .' शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति,
कियद् जडैन ग्रथितं विरोधि ॥ १५॥ चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता । अर्थशून्या-विषयपरिच्छेदविरहिता । अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद्-इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या । जडा अनवबोधस्वरूपा-इति द्वितीया । अम्बरादि-व्योमप्रभृतिभूतपञ्चकं शब्दादितन्मात्रजम्-शब्दादीनि यानि पञ्चतन्मात्राणि सूक्ष्मसंज्ञानि, तेभ्यो जातमुत्पन्नं, शब्दादितन्मात्रजम् इति तृतीया । अत्र च शब्दो गम्यः । पुरुषस्य च
१ अयं ग्रन्थः-भट्टाकलङ्कदेवकृतलघीयस्त्रयग्रन्थटीकात्मकः । इयं टीका दिगम्बराचार्य श्रीमाणिक्यनन्देरन्तेवासिना श्रीप्रभाचन्द्रेण प्रणीता ।