________________
१२०
श्लोक १५
अन्ययोगव्यवच्छेदिका प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च कापिलाः"तस्माद् न बध्यते नापि मुच्यते, नापि संसरति कश्चित्। संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः"॥१॥
तत्र बन्धः-प्राकृतिकादिः। मोक्षः-पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः-इति चतुर्थी । इतिशब्दस्य प्रकारार्थत्वाद्-एवंप्रकारमन्यदपि, विरोधीति विरुद्धं, पूर्वापरविरोधादिदोषाघातम् । जडैः-मूईः, तत्त्वावबोधविधुरधीभिः कापिलैः। कियन्न ग्रथितं-कियद् न स्वशाटेषूपनिबद्धम्। कियदित्यसूयाग़र्भम् । तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्तानवधारणात् । इति संक्षेपार्थः।
व्यासार्थस्त्वयम्-साङ्ख्यमते . किल दुःखत्रयाभिहतस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । तत्राध्यात्मिकं द्विविधम्-शारीरं मानसं च । शारीरं-वातपित्तश्लेष्मणां वैषम्यानिमित्तम् । मानसंकामक्रोधलोभमोहेाविषयादर्शननिबन्धनम् । सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा-आधिभौतिकमाधिदैविकं चेति । तत्राधिभौतिक-मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविक-यक्षराक्षसग्रहाद्यावेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतया, अभिसंबन्धो-आभघातः । ___ . तत्त्वानि पञ्चविंशतिः। तद्यथा-अव्यक्तम्-एकम् । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं व्यक्तम् । पुरुषश्च चिद्रूप इति । तथा च ईश्वरकृष्णः - .
१ ईश्वरकृष्णविरचितसांख्यकारिका ६२ । २ तत्काल्पितेत्यर्थः ।