________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१८६
याणि ततो विद्यमानप्रयोजकानीति न चन्द्रियाणां स्वत उपलम्भकत्वं येन रूपादिग्रहणं प्रति तेषां कर्तृत्वमेवोपगम्येत न करणत्वमचेतनत्वेन स्वत उपलम्भकत्वायोजनात् तथा चात्र प्रयोगः यदचेतनं तन्नोपलब्धं यथा घटोऽचेतनानि च द्रव्येन्द्रियाणि न चायमसिद्धो हेतुः यतः खलु द्रव्येन्द्रियाणि निर्वृत्युपकरणरूपाणि निवृत्युपकरणे च पुद्गलमयं च सर्वम वेतनं पुद्गलानां काठिन्य वबोधरूपतया चैतन्यं प्रति धर्मित्वायोगात् धर्मानुरूपो हि सर्वत्रापि धर्मी यथा काठिन्यं प्रति पृथिवी यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मभावो भवेत् ततः काठिन्यजलयोरपि सम्भवेत्तन्न भवति तस्माद
चेतनाः पुद्गलाः तथा चोक्तं " वाहसनावममुत्तं विसयपरिच्छेयगं च चेयन्नं । विवरीयसहावाणि य वूयाण जगप्प सिद्धाणि ॥ १ ॥ ता धम्मधम्मिभावो कहमेएसिं अणुब्भवग,मेय । अणुरूपत्ताभावे काठिन्नं जलाण किं न भवे ॥२॥” ततः स्वत उपलम्भकत्वाभावात् रूपादिग्रहणं प्रतीन्द्रियाणां करणभाव एव न कर्तृभाव इति स्थितम् । अथ चेदनुमानं सभोक्तकमिदं शरीरं भोग्यत्वात् स्थालस्थितोदनवत् भोग्यता च शरीरस्य जीवेन तथा निवसता भुज्यमानत्वात् द्वयोरपि च प्रयोगयोः साध्यसाधनप्रतिबन्धसिद्धदृष्टांते प्रत्यक्षप्रमाणसिद्धेति नोतलिंगालेगिसंबंध ग्रहरूपदोषावकाशः । आगमगम्योऽप्येष जीवः तथा चागमः " अणि दियगुणं जीवं दुनेयं मंसचक्खुणा । सिद्ध पस्संति सव्वन्नू , नाणसिद्धा य साहुणो ॥ १॥” अत्र ज्ञान से द्वाः सांधवो भवस्थकेवलिनः शेषं सुगमम् । न चागम नां परस्परविरुद्धार्थतया सर्वेषामप्यप्रामाण्यमभ्युपेयं सर्वज्ञमलस्यावश्यं प्रमाणत्वेनाभ्युपगमाहत्वादथाप्यसम्यक् प्रमाणाप्रमाणविभागापरिणतेः प्रेक्षावतां क्षितिप्रसंगात् । अथ कथमेतत्प्रत्येयं यथायमागमः सर्वज्ञमूल इत्युच्यते--यदुक्तोऽर्थः प्रत्यक्षेणानुमानेन वा न बाध्यते नापि पूर्वापरव्याहतः सोऽवस यसर्वज्ञप्रणीतोऽन्यस्य तथारूपत्वासंभवात् । ततस्तस्माद्यत्सिद्धं तत्सर्व सुसिद्धं उक्तं च "दिहणं इतॄणय जम्मि विरोहो न हुज्जइ कहिं वि। सो आगमतत्तो जं नणं तं सम्मनाणं ति||१॥" ततः प्रत्यक्षानुमानागमप्रमाणसिद्धत्वाद्वेदपदप्रतिष्ठितत्वाच्च साम्य ! अस्ति जीव इति प्रतिपत्तव्यम् । आवश्यकमलयागिरि द्वितीयखंडे । ( इह वेदपदोपन्यासस्तेन वेद,नां प्रमाणत्वेनाङ्गीकृतत्वात् )। आहच---
___“छिन्नमि समयंमि जाइजरामरणं विप्पमुक्केणं ।।
सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥" उक्तप्रमाणेन जिनेन भगवता वर्द्धम नस्वामिना जरामरणाभ्यामुक्तलक्षणाभ्यां विप्रमुक्त इव विप्रमुक्तः तेन छिन्ने निराकृते संशये स इन्द्रभूतिः पंचभिः खण्डिकशतैः छात्रशतैः सह श्रमणः प्रव्रजितः सन् साधुः संत इत्यर्थः ।। आवश्यकमलयगिरि दितीयखंडे ।। एवमन्येऽपि पराजिताः प्रव्रा जितश्च । एतच्च विस्तरेण विशेषावश्यकभाष्ये गणधरवक्तव्यतायामावश्यकचूर्णौ कल्पसूत्रषष्ठक्षणे श्रीहभिद्रसूरिणा धर्मसंग्रहण्यां षट्त्रंशद्गापामारभ्य त्रयोविंशत्याधिक गाथाशतके इत्यादि निरूपितं तत्तत एवावमेयम् ।