________________
१८७ . ___ स्याद्वादमञ्जरीसहिता
श्लोक २३ " में मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला" ॥१॥
इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसम्बद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव । तस्मानिवृत्तिः कथमिव महाफला भविष्यति, इज्या-ध्ययन-दानादेरापि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य, तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु. दोष एव, एवं मद्यमैथुनयोरपि । कथं नादोषः ? इत्याह-यतः प्रवृत्तिरेषा भूतानाम्-प्रवर्तन्त उत्पद्यन्तेऽस्यामिति प्रत्तिरुत्पत्तिस्थानम्, भूतानां जीवानाम्, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे" आमासु य पक्कासु य विपच्चमाणासु मांसपेसीसु।
आयंतियमुववाओ भणियो दुणिगोयजीवाणं ॥१॥ मज्जे महुमि मंसंमि णवणीयलि चउत्थए। उप्पज्जति अणंता तवण्णा तत्थ जंतूणो॥२॥ मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं। केवलिणा पण्णत्ता सद्दहियव्वा सयाकालं ॥३॥"
तथाहि
१ मनुस्मृतिः.५।५६. २ ऐदंपर्य-तात्पर्यम् . ३ रत्नशेखरसूरिकृतसम्बोधसप्ततिका गाथा ६६।६५।६३.
४ " आमासु च पक्कासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु निगोदजीवानाम् ॥ १ ॥ मद्ये मधुनि मांसे नवनीते चतुर्थके। उत्पद्यन्तेऽनन्ताः तद्वर्णास्तत्र जंतवः ॥ २ ॥ मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिताः श्रद्धातव्याः सदाकालम् ॥ ३ ॥इति छाया.