________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१८८
" इत्थीजोणीए संभवंति बेइंदिया उ जे जीवा । इको व दो व तिण्णि व सक्खषुहु उ उ.स्सं ॥४॥ पुरिसेण सह गयाए तेसिं जीवाण होइ उद्दवणं । वेणुगदिद्रुतेणं तत्तायसिलागणाएणं ॥५॥"
संसक्तायां योनौ द्वीन्द्रिया एते शुक्रशोणितसंभवास्तु गर्भजपञ्चन्द्रिया इमे
"पंचिदिया मणुस्सा एगणरभुत्तणारिगब्भमि । उकस्सं णवलक्खा जायंति एगवेलाए ॥६॥ णवलक्खाणं मज्झे जायइ एक्क दुण्हेय सम्मत्ती। सेसा पुण एमेव य विलयं वच्चंति तत्थेव ॥७॥
तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः–त एवात्र मांसभक्षणादौ प्रवर्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह-"निवृत्तिस्तु महाफला"-तुरेवकारार्थः, "तुः स्याद् भेदेऽवधारणे” इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदा। न पुनः प्रातिप्पी यर्थः । अत एव स्थानान्तरे पठितम्" वर्षे वर्षेऽश्वमेधेन यो यजेत् शतं समाः। मांसानि च न खादेद् यस्तयोस्तुल्यं भवेत् फलम् ॥ १॥ एकरात्रोषितस्यापि या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर !" ॥२॥
१ स्त्रीयोनौ सम्भवन्ति द्वीन्द्रियादिस्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृथुत्वं चोत्कृष्टम् ॥ ४ ॥ पुरुषेण सह गतायां तेषां जीवानां भवति उद्भवणम् । वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञातेन ।। ५ ॥ पंचेन्द्रिया मनुष्या एकनरभुक्तनारगिभे । उत्कृष्टं नवलक्षा जायन्ते एकवेलायाम् ।। ६ ।। नवलक्षाणां मध्ये जायते एकस्य द्वयोर्वा समातिः । शेषःः पुनरेवमेव च विल्यं व्रजन्त तत्रैव ॥ ७ ॥ इति घ.या । .२ अमाकाशे तृतीयक ण्डे २३९ श्लोकः । ३ मनुस्मृतिः ५।५३.