________________
१८९
. स्याद्वादमञ्जरीसहिता
श्लोक २३
मद्यपाने तु कृतं सूत्रानुवादैः, तस्य सर्वविगर्हितत्वात्।तानेवं प्रकारानर्थान् कथमिव बुधाभासास्तीथिका वेदितुमर्हन्तीति कृतं प्रसङ्गेन ।
अथ केऽमी सप्तभङ्गाः, कश्चायमादेशभेद इति । उच्यते-एकत्र जीवादी वस्तुनि, एकैकसत्त्वादिधर्मविषयप्रश्नवशाद् अविरोधेन प्रत्यक्षादिबाधापरिहारेण, पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कृत्वा स्याच्छब्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैवचनविन्यासः सप्तभङ्गीति गीयते । तद्यथा- १ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नारत्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधि-निषेधकल्पनया चतुर्थः। ५ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि-निषेधकल्पनया च पञ्चमः। तस्यानास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि-निषेधकल्पनया च षष्ठः। ७ स्यादस्त्येव स्यानास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि-निषेधकल्पनया, युगपद्विधि-निषेधकल्पनया च सप्तमः । तत्र-स्यात्कथंचित् स्वद्रव्यक्षेत्रकालभावरूपेणारत्येव सर्व कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण, तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनास्ति । नाप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन । न कान्यकुब्जादित्वेन । कालतः शैशिरत्वेन । न वासन्तिकादित्वेन । भावतः श्यामत्वेन । न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् , इतरथानभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत । प्रतिनियतस्वार्थानभिधानात् । तदुक्तम्१ ' अतिप्रसङ्गेन' इति क. ह. पुस्तकयोः पाठः । २ पाटलिपुत्रं नाम नगर 'प्टणा' ख्यातम् । ३ कान्यकुब्जो देशः 'कनौन' इति ख्यातः । औत्तराहेषु प्रसिद्धः ।