________________
श्लोक २३
अन्ययोगव्यवच्छेदिका "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥ __तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भा. द्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये स्याद् इति शब्दः प्रयुज्यते--स्यात् कथंचिद् स्वद्रव्यादिभिरेवायमास्ति । न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदपलैवकारवद बुद्धिमाद्भः प्रतीयत एव । यदुक्तम्___ "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते। ____ यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥१॥ इति प्रथमो भङ्गः।
स्यात्कथंचिद् नास्त्येव कुम्भादिः, स्वद्रव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्त्वानिष्टौ हि प्रतिनियतस्वरूपाभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् । कथंचित् तस्य वस्तुनि युक्तिसिद्धत्वात् , साधनवत् । न हि क्वचिद् अनित्यत्वादी साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम् , तस्य साधनत्वाभावप्रसङ्गात् । तस्माद् वस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतम् , नास्तित्वं च । तेनेति । विवक्षावशाच्चानयोःप्रधानोपसर्जनभावः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्-"अर्पितानर्पितसिद्धेः" इति वाचकवचनात् । इति द्वितीयः । तृतीयः स्पष्ट एव । .
द्वाभ्यामस्तित्व नास्तित्वधर्माभ्यां युगपत्प्रधानतयार्पिताभ्याम् एकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवाद् अवक्तव्यं १ तत्त्वार्थश्लोकवार्तिक १ अध्याय सू, ६ श्लो. ५३ । २ तत्त्वार्थश्लोकवार्तिक १ अध्याय सं. ६ श्लो. ५६ ।