________________
स्याद्वादमञ्जरीसहिता
श्लोक २३ जीवादिवस्तु, तथाहि-सदसत्त्वगुणद्वयं युगपद् एकत्र सदित्यनेन वक्तुमशक्यम् । तस्यासत्त्वप्रतिपादनासमर्थत्वात्, तथासदित्यनेनापि तस्य सत्त्वप्रत्यायनसामर्थ्याभावात् । न च पुष्पदन्तादिवत् साङ्केतिकमेकं पदं तद् वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामोपपत्तेः, शतृशानयोः संकेतितसैच्छन्दवत् । अत एव द्वन्द्व-कर्मधारयवृत्त्योर्वाक्यस्य च न तद्वाचकत्वम्, इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सत्त्वा-सत्त्वाभ्यां प्रधानभावाप्तिाभ्यामानान्तं व्यवतिष्ठते । न च सर्वथा वक्तव्यम् अवक्तव्यशब्देनाप्यनभिधेयत्वप्रसङ्गात् इति चतुर्थः । शेषास्त्रयः सुगमाभिप्रायाः।
न च वाच्यमेकत्र वस्तुनि विधीयमान-निषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गाद् असङ्गतैव सप्तभङ्गीति विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि अनन्तानामपि सप्तभ
गीनामेव संभवात् । यथा हि सदसत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्येव स्यात् । तथाहि स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्यावक्तव्यम्, स्याद् विशेषावक्तव्यम्; स्यात्सामान्यविशेषावक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यम् । सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधात्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता। यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेध. १ 'प्रत्यायमे' इति क. पुस्तके पाठः ।
२ पुष्पदन्ताख्यो गंधर्वविशेषः । तेन शिवमहिमस्तोत्रं व्यरचि । तत्र गन्धर्वविशेषे पुष्पदन्तशब्द एकपदात्मको रुढस्तत्संज्ञासंकेतेन । न तु तत्र पुष्याणीव दन्ता अस्येति विग्रहयुक्तसमासघटितपदद्वयेनार्थो बोध्यते । तद्वदत्र । ३ 'तौ सत्' इति पाणिनिसूत्र ३।२।१२७. ४ वृत्तिः-समासः ।