________________
श्लोक २३
अन्ययोगव्यवच्छेदिका रूपता । एवं सर्वत्र योज्यम् । अतः सुष्टुक्तं अनन्ता अपि सप्तभङ्गय एव संभवेयुरिति-प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् । तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात । तस्या अपि सप्तविधत्वं सप्तथैव तत्संदेहसमुत्तादात् । तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र-सकलादेशः प्रमाणवाक्यम् , तल्लक्षणं चेदम्-प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदत्तिप्राधान्याद् अभेदोपचाराद् वा । योगपद्येन प्रतिपादकं वचः सकलादेशः । अस्यार्थः-कालादिभिरशाभः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः, तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशयः-योगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदप्राधान्यवृत्याभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद् भेदप्राधान्यादा तदभिधत्ते तस्य नयात्मकत्वात् । .
___ कः पुनः क्रमः, किं च यौगपद्यम्-यदास्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा, तदैकशब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः, यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्यानेकाशेपंधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् ।
__ के पुनः कालादयः-कालः, आत्मरूपम् , अर्थः, संबन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दः, । तत्र-- (१) स्याद् जीवादि१ 'भवेयुः' इति क. ख. घ. रा. ह. पुस्तकेषु पाठः । २ 'प्राधान्य' इति ख, घ. पुस्तकयो स्ति ।